________________
गौतमीयप्रकाशाख्यटीकया सहितम् । ४७ यस्य स तं । 'नवृतश्च' (५।४।१५३) इति कप , तथा रणदित्येवंभूतो अव्यक्तो ध्वनिर्यासां ता रणद्धवनयस्ताश्च ता घण्टिकाश्चेति विग्रहः । यद्वा ध्वनिप्रधाना घण्टिका ध्वनिघण्टिकाः, रणन्त्यः३ शब्दारमाना ध्वनिघण्टिका इति विग्रहः । ततो रणवनिघण्टिकाश्च पताकाश्चेति द्वन्द्वस्तदनु चटुलाश्चपला रणद्ध्वनिघण्टिकापताका यस्मिन् स तमिति बहुव्रीहिः। अकार्पुरिति । कृञः कर्तरि लुङ् । चैत्य-६ सालमिति । 'चैत्यं जिनौकस्तबिम्बं चैत्यो जिनसभातरुः' इति हैमः (अनेकार्थः) । इह सालशब्दो दन्त्यादिरेव ॥ १४ ॥
प्रतिदिशमुपनीयते स तस्सा
कनकमयी चतुरासनी पुनस्तैः । श्रिय इव मिलिताः समस्तदिश्याः
प्रभुचरणाम्बुजपर्युपास्तयेऽस्थुः ॥ १५॥ १२ पुनस्तैर्देवैस्तस्मादशोकवृक्षात् प्रतिदिशं चतुर्दिक्षु कनकमयी वर्णमयी चतुरासनी सिंहासनचतुष्टयी उपनीयते स्म स्थाप्यते स्म । अत्रोप्रेक्षते-'प्रभोवीरखामिनश्चरणाम्बुजयोश्चरणकमलयोः पर्युपास्तये सेवायै १५ मिलिता एकत्रीभूताः समस्तदिश्याश्चतुर्दिगुद्भवाः श्रियो लक्ष्म्य इव अस्थुस्तिष्ठन्ति स्म' । उपनीयते इति । उपपूर्वान्नियः कर्मणि लट्, स च स्मयोगे भूतार्थे बोध्यः । कनकेत्यादि । कनकस्य विकार इत्यर्थे १८ मयट् । टित्वात् ङीप् । चतुर्णामासनानां समाहार इति विग्रहे 'तद्धितार्थ-' (२।१।५१) इत्यादिना समासः, 'द्विगोः' (४।१।२१) इति डीप् । दिश्या इति । भवार्थे 'दिगादिभ्यो यत्' (४।३।५४)। अस्थुरिति तिष्ठतेः कर्तरि लुङ् ॥ १५॥
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org