SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीगौतमीयकाव्यं मन्विति । उप समीपे वनमुपवनं 'अपोपाभ्यां वनं वेलमारामः कृत्रिमे वने' इति हैमः । 'अनुर्लक्षणे' (१।४।८४) इत्यादिनाऽनोः कर्म३ प्रवचनीयसंज्ञा तद्योगे द्वितीया । 'अनुर्यत्समया' (२।१।१५) इत्यस्य वैकल्लिकत्वात्समासाभावः। आश्चकदिति । 'अङ्क पदे लक्षणे च' चुरादिरदन्तस्तस्याऽग्लोपित्वान्न वकार्यम् ॥ १२ ॥ शतयुगधनुरायतां जिनाङ्गो च्छ्रितिनिचितां खचितां विचित्ररतैः । विटपिवनमवाधयंस्तदुवं मणिधरणी निवबन्ध मध्यभागे ॥१३॥ .. अधो वर्तमानं विटपिनां वृक्षाणां वनं अबाधयन् अपीडयन् व्यन्तरदेवसमूहस्तदूद्ध तस्या अङ्किताया वनभूमेरुपरि मध्यभागे १२ मध्यप्रदेशे शतयुगधनुरायतां द्विशतधनुःप्रमाणदीर्घा तथा जिनाङ्गं भगवच्छरीरं तस्येव, तत्प्रमाणेत्यर्थः। या उच्छितिरुच्चत्वं तस्यां निचितां पुष्टां, न तु रिक्तां पुनर्विचित्ररत्नैर्नानाप्रकाररनैः खचितां जटितां १५ मणिधरणीं मणिपीठिकां निबबन्ध बध्नाति स्म । शतेत्यादि । शतयुगं शतद्वयं तत्सङ्ख्यानि धनूंषि आयतां दीर्घा, विस्तां चेत्यर्थः । इहाऽयामविस्तारयोस्तुल्यत्वात् खचितामिति 'खच भूतप्रा१८ दुर्भावे कर्मणि क्तः ॥ १३ ॥ मधुकरकुललीढमञ्जरीकं चटुलरणद्धनिघण्टिकापताकम् । प्रमुदितमरुतस्तदन्तराले रुचिरमकाएरशोकचैत्यसालम् ॥१४॥ २५ प्रमुदिता आनन्दिता मरुतो देवास्तस्या मणिपीठिकाया अन्तराले मध्ये रुचिरं मनोज्ञं अशोकाख्यं चैत्यसालं चैत्यवृक्षं अकार्षुः कुर्वन्ति २३ स्म । कीदृशं तम् । मधुकरकुलैर्भमरसमूहै-ढा आखादिता मञ्जरी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy