________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
४५
संयोगे विशेषतः प्रादुर्भवतीत्यर्थः । विभरामिति । 'भीहीभृहुवाम् - ' (३|१| ३९ ) इत्यादिना भृञो लिटि आम्, लुवद्भावाद्वित्वादि ॥ १० ॥
गगनसृत जलच्छटाप्रपातादपहृत रेणुमला द्रुमा विरेजुः ।
अखिलवनमपि प्रकाशमाप्तं
द्रवदिव रङ्गरसौ तदाssवभासे ॥ ११ ॥ ६ पुनस्तस्मिन्नवसरे गगने आकाशे सृताः प्रसृता या जलच्छटास्तासां प्रपातः पतनं तस्मात् अपहृतमपगतं रेणुमलं रजोरूपं मलं येषां ते एवंविधा दुमा वृक्षा विरेजुः शोभन्ते स्म यद्वा किमनया वृक्षमात्र - ९ शोभावर्णनया तत्प्रागुक्तखरूपं अखिलं समस्तं वनमपि जलच्छटा प्रपतनात् प्रकाशमुद्द्योतमाप्तं प्राप्तं सत् रङ्गरसौ द्रवदिव सवदिव आबभासे शुशुभे । विरेजुरिति । 'फणां च सप्तानाम् ' ( ६ । ४ । १२५ ) १२ इति लिटि एत्वाभ्यासलोपौ । आबभासे इति । ' भासृ दीप्तौ ' कर्त्तरि लिट् ॥ ११ ॥
त्वरितमथ पिशाचभूतयक्षाद्यनिमिषसङ्घ इह स्वनाथनुन्नः ।
उपवनमनु योजन प्रमाणां
१५
वलयमिलद्विधिनाञ्चकद्धरित्रीम् ॥ १२ ॥
अथ घनवर्षणानन्तरं पिशाचभूतयक्षादयो येऽनिमिषा देवास्तेषां सङ्घः समूहः खनाथैः खखामिभिर्नुन्नः प्रेरितः सन् त्वरितं शीघ्रं sesस्मिन् शुद्धीकृते क्षेत्रे उपवनमनु उपवनस्य समीपे योजनं प्रमाणं २१ यस्याः सा तां धरित्रीं वलयः प्राकारवलयस्तेन मिलन् यो विधिस्तेन प्राकारवलयरचनोचितविधिना आञ्चत् अङ्कयति स्म । उपवन- २३
Jain Education International For Private & Personal Use Only
१८'
www.jainelibrary.org