________________
४४
श्रीगौतमीयकाव्यं
मेघः जलवर्षणादेव प्रसृमरं विस्तरणशीलं रजो धूलीं आशु शीघ्रं शान्तिमुपशमं निनाय प्रापयति स्म । कः कमिव । उपशमं बिभर्तीति ३ उपशमभृत् उपशमी साधुः कुतोऽपि कारणात् उदितमुदयं प्राप्तं कषायं क्रोधादिकमिव । यथाऽसौ तं सद्य उपशमयति तथेत्यर्थः । तण। तणेत्यादि । तणतण (त्) भवतीति तणतणाभवति 'अव्यक्तानुकरणा' ६ (५/४/५७ ) इति तच्छब्दात् डाच्, ततो द्वित्वे कृते पूर्वपरयोवर्णयोः पररूपं तकारस्ततष्टिलोपः, तणतणाभवतीति तणतणायते २ तणतणायमानः 'लोहितादिडाज्भ्यः - ( ३|१|१३ ) इत्यनेन डाज९ न्ताद्भवत्यर्थे क्यप् । ततो लटः शानच् । असुस्रुवदिति । 'स्रु गतौ ' 'णिश्रिदुनुभ्यः' ( ३|१|४८ ) इति कर्तरि च । ततो द्वित्वम् । निनायेति । द्विकर्मकान्नयतेः कर्त्तरि लिट् ॥ ९ ॥
मृदपि घनजलाभिषिक्तभूमेः सुरभितरं बिभरांबभूव गन्धम् । प्रकटयति सहायतां हि यातं सहजगुणानपि वस्तुनो निमित्तम् ॥
१० ॥ तस्मिन्नवसरे घनजलेन मेघपानीयेन अभिषिक्ता सिक्का या भूमिस्तस्या मृत् मृत्तिकाऽपि सुरभितरं अतिसुरभिगन्धं बिभरांबभूव धार१८ यामास । युक्तोऽयमर्थः - हि यतः कारणात् निमित्तं निमित्तकारणं सहायतां साहाय्यं यातं प्राप्तं सत् वस्तुनः पदार्थस्य सहजगुणान् स्वाभाविकगुणानपि प्रकटयति प्रकटीकरोति । एतावता गन्धः खभावा२१ देव लोके' पृथिव्या गुणत्वेन ख्यातोऽस्ति, स च जलमृत्तिका -
१२
१५
१ गन्धवती 'पृथिवी' इति नैयायिक लोके
1
Jain Education International For Private & Personal Use Only www.jainelibrary.org