SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्य टीकया सहितम् ४३ अमराः स्तनितकुमारादयो देवा धुरि आदौ सिता श्वेता तनुः शरीरं येषां ते सिततनवः एवंविधा ये जलभृतो मेघास्तेषां विकुर्वणाभिः रचनाभिर्दिवमाकाशं अभ्रलिप्तीमऽल्पाऽभ्रपटलयुक्तां चक्रुः ३ कुर्वन्ति स्म, तदनु ततः पश्चात् ते देवाः आहता आदरयुक्ताः सन्तो द्रुतं शीघ्रं सलिलस्य पानीयस्य सङ्क्रमः सङ्क्रमणं तेन अभिरामं मनोहरं मृदुः कोमलो यो मुदिरो मेघस्तं विचक्रुः विकुर्वंति स्म । दिवमिति । ६ 'दिव्शब्द : ' स्त्रीलिङ्गः । अभ्रेत्यादि । अल्पैर लिप्तेति विग्रहे 'क्तादल्पाख्यायाम्' (४।१।५१ ) इति ङीप् । मुदिरमिति । 'नम्राट् तडित्वान् मुदिरो घनाघनः' इति हैमः ॥ ७ ॥ ततः किं संजातमित्याह - मधुरमतितरां जगर्ज नम्राभिमुखगुञ्जनवायुघट्टनेन । उपलयुगलवत्समीरघर्षाच्चतसृषु दिक्षु विदिद्युते च विद्युत् ॥ ८ ॥ १२ नभ्राट् मेघः अभिमुखं सम्मुखं गुञ्जनं यस्य तादृशो यो वायुस्तस्य घट्टनं सङ्घट्टस्तेन अतितरामतिशयेन मधुरं यथा स्यात्तथा जगर्ज गर्जति स्म । च पुनश्चतसृषु दिक्षु विद्युत् उपलयुगलवत् पाषाणद्वयमिव समीर - १५ घर्षाद् वायुसंसर्गाद् विदिद्युते द्योतते स्म । यथा पाषाणद्वयं परस्परघर्षणाद् द्योतते तथेत्यर्थः । विदिद्युते इति । 'द्युत दीप्तौ कर्तरि लिट् । 'धुतिखाप्योः ' ( ७|४| ६७ ) इति संप्रसारणम् ॥ ८ ॥ १४ तदनु तणतणायमानमेघोऽप्यविरलजालमसुस्रुवञ्जलानाम् । उपशमभृदिवोदितं कषायं प्रसमरमाशु रजो निनाय शान्तिम् ॥९॥ तदनु ततः पश्चात् तणतणायमानस्तणत्तणच्छब्दं कुर्वाणो मेघोsपि जलानामविरलजालं निबिडसमूहमसुखुवत् स्रवति स्म । अत एव स २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy