SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ४२ श्रीगौतमीयकाव्यं विधास्तेषां वायुकुमारदेवानामऽनुगाः सेवकप्रायाः प्रभूता बहवो भूता भूतजातीया व्यन्तरदेवाः खनकजना इव भूमिखनकलोका इव विषम३ तमां निम्नोन्नतरूपेणाऽतिविषमां धरित्री भागैर्विभज्य विभागीकृत्य सपदि शीघ्रं समां समप्रदेशामऽसृजन् कुर्वन्ति स्म । ललनेति । 'देवनं कूर्दनं खेला ललनं वर्करोऽपि चेति हैमः । ललनपरा इत्यनेन हि ६ तेषां स्वभावोक्तिः। 'तुमुलो व्याकुलो रवः' इति हैमः । असृजनिति। सृजेस्तौदादिकात्कर्तरि लङ् ॥ ५॥ इति पवनकुमारदेवसङ्घ स्वकुलकृतौ कृतकृत्यतामवाप्ते । ९खपतिनयननोदनप्रणुनः स्तनिततडित्सुमनोबजः ससज॥६॥ इत्यमुना प्रकारेण पवनकुमारदेवानां सङ्घ समूहे खकुलस्य या कृतिः क्रिया तस्यां विषये कृतकृत्यतां अवाते प्राप्ते सति स्वपत्योः खखा१२ मिनोर्या नयननोदना नेत्रप्रेरणा तया, प्रणुन्नः प्रेरितो यद्वा स्वपतिभ्यां नयननोदनया प्रणुन्नः प्रेरितः सन् , स्तनिताः स्तनितकुमारास्तडितो विद्युत्कुमारा ये सुमनसो देवास्तेषां व्रजः समूहः ससज्ज खोचितक्रियां १५ विधातुं सज्जो बभूवेत्यर्थः । कृतेत्यादि । कृतानि कृत्यानि कार्याणि येन स कृतकृत्यस्तस्य भावस्तत्ता ताम् । प्रणुन इति । 'नुदविदोद-' (८।२।५६) इत्यादिना क्तस्य वैकल्पिकं नत्वम् । १८ स्तनितेत्यादि । द्वन्द्वाऽनन्तरकर्मधारयगर्भस्तत्पुरुषः 'वृन्दारकाः सुमन सस्त्रिदशा अमर्त्या' इति हैमः । ससजेति । 'पस्ज गतौ' भौवादिकस्ततः कर्तरि लिट् ॥ ६ ॥ २५ कथमित्याह सिततनुजलभृद्विकुर्वणाभिर्दिवममरा धुरि चक्रुरभ्रलिप्तीम् । २३ तदनु सलिलसङ्कमाभिरामं मृदुमुदिरं द्रुतमादृता विचक्रुः ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy