________________
गौतमीयप्रकाशाख्यटीकया सहितम् । ४१ विपिनपरिमृजायां वनप्रमार्जने परास्तत्पराः समीरा वायवस्तस्यावकरस्योपरि रजांसि धूलीश्चिक्षिपुः क्षिपन्ति स्म । युक्तोऽयमर्थः'इहास्मिन् लोके भगवति श्रीमजिनेन्द्रे संनिकृष्टे समीपवर्तिनि भवति३ सति कुतः कस्मात् सरजसता मलिनता न विप्रकृष्टा न दूरीभूता। भगवत्सांनिध्यतो हि सर्वेभ्योऽपि मालिन्यं दूरीभवेदेवेत्यर्थः । विपिनेत्यादि । तत्पुरुषोऽयं, यद्वा विपिनस्य या परिमृजा शोधनं सा पराक्ष प्रधानीभूता येषामिति बहुव्रीहिः । 'कान्तारं विपिनं कक्षः स्यात् षण्डं काननं वन मिति हैमः । परिमृजेत्यत्र भिदादित्वास्त्रियामङ् । ततष्टाप् भवतीति शत्रन्तात् सप्तमी । सरजसतेत्यादि । रजसा सह वर्तमानं ९ सरजसमिति बहुव्रीहिः, ततस्तस्य भावस्तत्ता । अत्र 'अचतुर(५।४७७) इत्यादिना समासान्तोऽच् , ततस्तल् । 'ननु रजोऽप्यsपरित्यजेति सरजसमित्यव्ययीभावे एवाऽच् , बहुव्रीहौ तु सरजःपंकज-१२ मित्येवं इति शब्दशास्त्रोक्तेः कथमत्राऽच् इति चेत्'-सत्यं महाकविभिबहुव्रीहावपि प्रयुक्तत्वान्नाऽत्र दोषः । तथा च माघः-'सरजसमकरंदनिर्भरासु' (७४२) इत्यादि । एवं 'सरजसतामवनेरपां १५ निपात' इत्यादावपि बोध्यम् । तुरवधारणे, 'विप्रकृष्टपरे पुनः दूरे' इति हैमः ॥ ४ ॥
सपदि तदनुगाः प्रभूतभूता ___ ललनपरास्तुमुलक्रियाभियुक्ताः। इव खनकजना विभज्य भाग
विषमतमामसृजन् समां धरित्रीम् ॥ ५॥ २१ तत इत्यध्याहारात् तदनन्तरं ललनं क्रीडनं परं प्रधानं येषां ते तथाऽत एव तुमुलक्रियायां व्याकुलशब्दकरणेऽभियुक्ता उद्यता एवं-२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org