________________
४०
श्री गौतमीयकाव्यं
समवसरण हेतुनाऽस्य भर्तु - वितनुत योजनमाशु भूमिशुद्धिम् ॥ २ ॥
३
रे देवाः, अस्य भर्तुर्महावीरखामिनः समवसरणहेतुना समवसरण - निमित्तं रजसो धूलेरपनोदोऽभ्याहारस्तं कुरुत, तथाऽदःस्थलादेतत्स्थानादमेध्यमपवित्रं वस्तु सुतरामतिशयेन दूरं दूरप्रदेशे क्षिपत मुञ्चत । ६ इत्थं च योजनं यावत् आशु शीघ्रं भूमिशुद्धिं वितनुत विस्तारयत । कुरुतेत्यादि । अत्र 'संभ्रमेण प्रवृत्तौ ' ( वा० ) इत्यादिवचनाद्दित्वम् । स्थलादिति । अत्र दूरशब्दयोगे 'दूरान्तिकार्थैः' ( २|३|३४ ) इति ९ पञ्चमी ॥ २ ॥
द्रुततरमथ विक्रियाप्रसूतैर्भ्रमदनिलैर्वन भूतलादुदस्तः । विकिरदवकरोऽपि योजनान्ते निपतित उन्नतवप्रतामवाप ||३||
१२
अथेदृग्वाणीप्रादुर्भावानन्तरं विक्रियया वायुकुमारदेवकृत विकुर्वया प्रसूतैरुत्पन्नैर्भ्रमद्भिरितस्ततः सञ्चरद्भिरनिलैर्वायुभिर्वनभूतलाद्वनभूमेः सकाशात् द्रुततरं शीघ्रतरं उदस्त उत्क्षिप्तः, उत्पादित इति यावत् । १५ अत एव विकिरन् प्रतिदिशं विक्षिपन् अवकरोऽपि अस्थिकाष्ठकण्टकादिकचवरोऽपि योजनान्ते चतुः क्रोशप्रान्ते निपतितः सन् उन्नतवप्रतां तुङ्गप्राकारतां अवाप प्राप्तवान् बाहुल्यादुच्चैस्तर प्राकार १८ इवाभूदित्यर्थः । प्रसूतैरिति । पूङो कर्मकत्वविवक्षया कर्त्तरि क्तः । अनिलैरिति । कर्त्तरि तृतीया । उदस्त इति । उत्पूर्वादस्यतेः कर्मणि क्तः । विकिरदित्यादि कर्मधारयः ॥ ३॥
विपिन परिमृजापराः समीरास्तदवकरोपरि चिक्षिपू रजांसि । २२ भगवति भवतीह सन्निकृष्टे सरजसता तु कुतो न विप्रकृष्टा ॥४॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org