SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । अथ द्वितीयः सर्गः। अथ पवनकुमारनिर्जराणां हृदि जगदीश्वरभक्तिराविवेश ॥ रणरणकभृतां तया समेषां प्रतिमुखमाविरभूच भारतीयम् ॥१॥३ जगत्रयाऽधीश्वरतां यदीयां जनेषु प्रख्यापयितुं किलोच्चैः।। व्यधायि वप्रत्रयमाशु लेखैस्तमीश्वरं वीरजिनं प्रणौमि ॥१॥ अथाऽनन्तरं पवनकुमारनिर्जराणां वायुकुमारदेवानां हृदि मानसे ६ जगतामीश्वरो वीरप्रभुस्तस्य भक्ति उपास्तिः। आविवेश प्रवेशं कृतवान् । तथा तया भक्त्या रणरणकभृतामौत्सुक्यं बिभ्रतां समेषां समस्तानां तेषां देवानां प्रतिमुखं मुखे मुखे इयं वक्ष्यमाणा भारती वाणी ९ आविरभूत् प्रादुर्बभूव । चशब्दः समुच्चये। निर्जरेति । 'अमरा निर्जरा देवाः' इत्यमरः । आविवेशेति । 'विश प्रवेशने' कर्तरि लिट् । रणरणकेति । 'औत्सुक्यं रणरणकोत्कंठे' इति हैमः । रणरणकं १२ बिभ्रतीति भृञः किम् । तेषामिति । समशब्दः सर्वपर्यायोऽत एव सर्वनामकार्यम् । प्रतिमुखमिति । मुखं मुखं प्रतीति विग्रहः । 'अव्ययं विभक्ति- (२।१।६) इत्यादिना वीप्सायामव्ययीभावः । भार- १५ तीति । 'वाग्ब्राह्मी भारती गौर्गी रिति हैमः । अस्मिन् सर्गे पुष्पिताग्रावृत्तं, तल्लक्षणं च-'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति ॥ १॥ केयमित्याह कुरुत कुरुत रे रजोऽपनोदं क्षिपत सुदूरमदःस्थलादमेध्यम् । २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy