SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीगौतमीयकाव्यं रमणीयं तत् प्रागुक्तस्वरूपं खमात्मीयं षण्डं काननमित्थमुक्तप्रकारेण लघु शीघ्रं परिमण्डयाञ्चकार समन्तात् शोभितं चक्रे । फलेत्यादि। ३ फलानि च कुसुमानि च छदानि च फल कुसुमच्छदानि तैरभिरामं रम्यं 'वह पर्ण छदं दलम्' इति हैमः । अस्खमैरिति । 'सहयुक्ते-' (२।३।१९) इति तृतीया । 'गीर्वाणा मरुतोऽस्खामा' इति हैमः । ६महसेनेत्यादि । यक्षाणां राजा यक्षराजः 'राजाहःसखिभ्यः(५।४।९१) इति टच् । महसेनश्चासौ यक्षराजश्चेति कर्मधारयः । लध्विति । 'शीघ्रं क्षिप्रं द्रुतं लघु' इति हैमः । परिमण्डयामिति । ९ मडि भूषायां' चुरादिः 'कास्प्रत्ययात्-' (३।११३५) इत्याम् । 'अयामन्त-' (६।४।५५) इति णेरयादेशः । इदं प्रहर्षिणीवृत्तम् । तल्लक्षणं च-'म्नौ नौ गस्त्रिदशयतिः प्रहर्षिणीयम्' इति ॥ ४१ ॥ १२ अथ कविः काव्यवर्णन(ख)नामाख्यानपूर्वकं सर्गसमाप्तिं कथ. यति-- इति श्रीकविरूपचन्द्रविरचिते गौतमीये महाकाव्ये १५ महसेनवनवर्णनो नाम प्रथमः सर्गः ॥१॥ __इतिशब्दः परिसमाप्ती, श्रीरूपचन्द्रेति कविनामकथनम् , गौत मीय इति काव्यनामकथनं, गौतममधिकृत्य कृतो ग्रन्थ इति १८ गौतमीयं छप्रत्ययः । वर्णितं चात्र षड्ऋतुवर्णनद्वारा महसेनवनमिति, एवमुत्तरत्रापि द्रष्टव्यम् ॥ इति वाचनाचार्यक्षमाकल्याणगणिकृतायां गौतमीयप्रबन्धव्याख्यायां २१ गौतमीयप्रकाशाख्यायां प्रथमः सर्गः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy