SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । ३७ छायाभरेणोच्छ्रितभूरुहाणां बभार सा भूरपि मेचकाभाम् । त्रैलोक्यनाथक्रमधारणाय स्तृतेव गारुत्मतशक्रनीलैः॥४०॥ यत्र भुवि महसेनषण्डं वर्तते सा भूरपि पृथ्वी अपि उच्छित-३ भूरूहाणामुन्नतवृक्षाणां छायाभरेण छायासमूहेन मेचकाभां कृष्णप्रभां बभार धारयामास । अत्रोत्प्रेक्षते- त्रैलोक्यनाथस्य वीरप्रभोः क्रमयोश्चरणयोर्धारणाय विन्यासाय गारुत्मतशक्रनीलैः मरकतेन्द्रनील-६ मणिभिः स्तृता इव आच्छादिता इव, यतो मरकतादिभिरास्तृताऽपि भूमिर्मेचकाऽऽभां बिभर्ति । बभारेति । भृञः कर्तरि लिट् । मेचकेति। 'कृष्णस्तु मेचकः' इति हैमः । मेचका चासौ आमा चेति विग्रहः । त्रैलोक्येत्यादि । त्रयश्च ते लोकाश्च त्रिलोकास्ते एव त्रैलोक्यं, 'खार्थे ण्यः' । 'पदोंऽहिश्चलनः क्रमः' इति हैमः। अत्र तादर्थे चतुर्थी । स्तृतेति । स्तृञः कर्मणि क्तः । गारुत्मतेत्यादि । गारुत्मतानि च १२ शक्रनीलाश्च तैः 'मरकतं त्वरमगर्भ गारुल्मतं हरिन्मणिः' इति, 'नीलमणिस्त्विन्द्रनीलः' इति च हैमः ॥ ४०॥ अथोपसंहरतिइत्थं तत्फलकुसुमच्छदाभिरामं तत्कर्माधिकृतकृती जिनेन्द्रभक्तः । स्वाऽस्वनैः सह महसेनयक्षराजः खं षण्डं लघु परिमण्डयाञ्चकार ॥४१॥ तस्मिन् कर्मणि वनसंस्कारक्रियायां येऽधिकृता अधिकारिणो देवास्तेषु कृती विचक्षणस्तथा जिनेन्द्रस्य वीरप्रभोभक्तः सेवकः एवंविधो २१ महसेनयक्षराजो महसेननामा यक्षाधिपतिः खस्याऽऽत्मनो येऽखमाः सेवकप्राया व्यन्तरदेवास्तैः सह फलकुसुमच्छदाभिरामं फलपुष्पपत्रै २३ १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy