________________
श्रीगौतमीयकाव्यं इनिः । तारेति । 'तारोऽत्युच्चैर्ध्वनिः' इति हैमः । वर्ल्सदित्यादि। 'वृतु वर्त्तने आत्मनेपदी 'वृभ्यः स्यसनोः' (१।३।९२) इति परस्मै३पदं, 'न वृभ्यश्चतुर्व्यः' (७।२।५९) इतीडभावः, शुभमस्त्यस्मिन्निति शुभः अर्शआदित्वादच् , 'उदकस्तद्भवं फलं' इति हैमः।
उत्तरकालोद्भवमित्यर्थः । अचिकीर्तनिति । 'कृत संशब्दने ६चुरादिः लुङ् । 'उपधायाश्च' (७।१।१०१) इति 'ऋत इत्
(७१।१००) इति रपरत्वम् ॥ ३८ ॥ विभ्राजमानाऽभ्रघटेव दुरात्तच्छयामलाभं विपिनं बभासे । ९ मेरोरिवाऽऽनीय धृतं धरित्र्यामैन्द्रं वनं भक्तिभृतैरमत्त्यैः॥३९॥
दूरादूरप्रदेशात् श्यामला आभा प्रभा यस्य तत्तथाविधं तत् प्राग्व्यावर्णितखरूपं विपिनं महसेनाख्यं वनं विभ्राजमाना दीप्यमानाs१२ प्रघटा इव मेघघटा इव बभासे शुशुभे । यथा दूरात् श्यामलामा धनघटा
शोभते तथेदमित्यर्थः। उत्प्रेक्ष्यते-किमिव ? भक्तियुक्तैरमत्यैर्देवैमेरोः
कनकाचलात् आनीय धरित्र्यां पृथिव्यां धृतं स्थापितं ऐन्द्रं इन्द्रसंबन्धि १५ वनमिव-नन्दनाख्यं काननमिव इदं महसेनषण्डं भवति(भातिः), किंतु(8)
भक्तैः सुरैमरोः सकाशादिहानीतं नन्दनं वनमेवास्तीति उत्प्रेक्ष्यते इति भावः । अर्मेति । 'अभं मेघो वारिवाहः' इत्यमरः । श्यामलेति । १८ स्याद्रामः श्यामलः श्यामः' इति हैमः । विपिनमिति । 'अटव्यरण्यं विपिनं गहनं काननं वनं' इत्यमरः । बभासे इति । 'भास दीप्तौ'
करि लिट्र । आनीयेति । आङ् पूर्वान्नयतेः पूर्वकाले क्त्वा २९ तस्य ल्यप् , धृतिमति धृञः कर्मणि क्तः। ऐन्द्रमिति । इन्द्रस्येदमित्यर्थे
'तस्येदम्' (४।३।१२०) इत्यण् । भक्तीत्यादि । भत्त्या भृताः २३ पूरितास्तैः । अमत्त्यैरिति । 'अमर्त्या अमृतान्धसः' इत्यमरः ॥३९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org