________________
गौतमीयप्रकाशाख्यटीकया सहितम् । ३५ अपिशब्दार्थः, ते वृक्षाः स्वस्यात्मनो यः ऋतुस्तस्मिन्निव सुमनःफलैः पुष्पफलैरत्यन्तविलोकनीया अत्यन्तं यथा स्यात्तथा निरीक्षणीया भूता अभूवन् । यथा खतौ अतिरम्या भवन्ति तथेदानी अभूता इत्यर्थः।३ अत्रोपपत्तिमाह-'अहो इत्याश्चर्ये' भगवतोऽयं भागवतः भगवत्सम्बन्धी अनुभावः प्रभावो विलोक्यतामिति शेषः, यद्दधाना एवंविधास्तरवो जातास्तत्र प्रभोरतिशय एव कारणं नत्वन्यत् किमपीति भावः । इष्ये इति । 'वसन्त इष्यः सुरभिः' इति हैमः । खल्विति । इदं वाक्यालङ्कारे निश्चये वा, दुर्लभानीति दुःखेन लभ्यन्ते इति 'ईषद् दुःसुषु' ( ३।३।१२६) इति खल् । 'उपसर्गात्' (७।११६७) इति निय-९ मान्नुम्भावः । सुमन इत्यादि । सुमनसश्च फलानि च तैः । भागवत इति । 'तस्येदम्' (४।३।१२०) इत्यण ।। ३७ ॥ .. अथ सामान्यतो वनं वर्णयतिपुष्पैः फलैर्वा युगपत्समिद्धे नीरन्ध्रनीलदुमकाननेऽस्मिन् । पतत्रिणस्तारविराववन्तो वच्छुभोदर्कमिवाचिकीर्तन् ॥३८॥ । पुष्पैर्वा पुनः फलैर्युगपत्समकालं समिद्धे व्याप्ते शोभिते वाs-१५ स्मिन् नीरन्ध्राणां सान्द्राणां नीलानां नीलवर्णानां द्रुमाणां वृक्षाणां कानने वने तार उच्चैस्तरो यो विरावो ध्वनिः स विद्यते एषामिति तथाविधाः पतत्रिणः पक्षिणः कोकिलाद्याः वय॑न् प्रवर्तिष्यमाणः १८ शुभः प्रशस्तो य उदक आगामिकालोद्भवं फलं तमचिकीर्तन्निव कथयामासुरिवेत्युत्प्रेक्षा । उत्तरकाले हि अत्र शुभप्रवृत्तिर्भविष्यतीत्याधूचुरिवेति भावः । समिद्धे इति । निइन्धी दीप्तौ' संपूर्वादस्माकर्तरि २१ क्तः, ईदित्त्वान्नेट् । नीरन्ध्रेति । 'निबिरीसं घनं सान्द्रं नीरन्ध्र' इति हैमः । पतत्रिण इति । पतत्राणि तनूरुहाणि सन्त्येषामिति मत्वर्थे २३
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org