________________
३२
श्रीगौतमीयकाव्यं
'भेदाः कान्तारपुण्डाद्यास्तस्य' इति हैमः । कान्तार १ पुण्ड २ इत्यादयस्तस्येक्षोर्मेदाः सन्तीति तदर्थः। काण्डेष्विति । 'काण्डो ३ नालेऽधमे वर्गे दुस्कन्धेऽवसरे शरे' इत्यनेकार्थः। सकलेत्यादि। सकलाश्च तेऽर्थाश्च सकलार्थास्तेषां सिद्धिनिष्पत्तिस्तस्यै अलमर्थकस्य क्षमपदस्य योगे 'नमःखस्ति- (२।३।१६) इत्यादिना चतुर्थी । ६ त्रिलोक्या इति । त्रयाणां लोकानां समाहारस्त्रिलोकी, तस्याः 'तद्धितार्थ-' (२१११५१) इत्यादिना समाहारे द्विगुः । 'द्विगोः' (४।१।२१) इति ङीप् ॥ ३३ ।। ९ प्राकुड्मलेषु प्रसवेषु पश्चा
जनानुरागेण ततः फलेषु । दः पदं दाडिमपादपानां ___ यत् सुन्दराणां न हि सुन्दरं किम् ॥ ३४ ॥ जनानां लोकानामनुरागोऽनुरतिस्तेन कर्तृभूतेन प्राक् पूर्व दाडिमपादपानां दाडिमवृक्षाणां कुङ्मलेषु मुकुलेषु ईषद्विकसितकलिकासु १५इति यावत्, पदं स्थानं दः धृतं, पश्चात् प्रसवेषु तेषामेव पुष्पेषु पदं
दभ्रे । ततस्तदनन्तरं तेषां फलेषु पदं दः । अयमर्थः-पुष्पफलोत्पत्तेः
पूर्व(हि)दाडिमानां मुकुलेष्वेव जनानामनुरागः समाजनिष्ट ततः पुष्पो५८त्पत्तौ सत्यां तत्रानुरागोऽभूत् तदनु फलप्रादुर्भावे तत्रैव जनानु रक्तता जातेति । एतदेव द्रढयति-यत् यस्मात्कारणात् सुन्दराणां
शोभनानां किमऽवयवादि सुन्दरं न हि भवेत् सर्वमपि सुन्दरमेव २१ स्यादित्यर्थः । इदमत्र तात्पर्यम्-'यतो दाडिमवृक्षाः खयमेव शोभ
नास्ततो मुकुलाद्यास्तदवयवास्तु शोभनाः स्युरेव अथ शोभनत्वाच्च ___ सर्वत्र सर्वावयवेषु जनानुरागो घटत' एवेति । कुमालेष्विति । कुमलो २४ मुकुलोऽस्त्रियां' इत्यमरः । अन्वित्यादि । 'रागोऽनुरागो रतिः' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org