________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
साम्प्रतं त्रिभिहेमन्तं वर्णयतियथा रसो व्यापिपरद्धिमत्तौं
पुण्ड्रेक्षुकाण्डेषु तदा तथैव । कालो जडश्चेत्सकलार्थसिद्धये
क्षमो भवेत्कि न पतिस्त्रिलोक्याः॥३३॥ यथा येन प्रकारेण हिमत्तौ हेमन्तकाले पुण्ड्राः पुण्ड्रजातीया ये ६ इक्षवो रसालवृक्षास्तेषां काण्डेषु स्कन्धेषु रसो मधुराखादो व्यापिपरत् व्यापृतोऽभूत् परिणमति मेति यावत् । तथैव तेनैव प्रकारेण तदा तस्मिन् काले प्रभोरागमनसमयेऽपीत्यर्थः । इक्षुकाण्डेषु रसो व्यापि-९ परत् इत्यावृत्त्या योज्यम् । 'ननु कालद्रव्यस्याऽजीवत्वेन जडरूपत्वाकथमीदग्विधानसामर्थ्य सञ्जाघटीति' इत्याशङ्कयाह-काल इत्यादि । चेद्यदि कालोऽनेहा जडोऽचेतनस्तथाविधकार्यकरणेऽक्षमोऽस्तीत्यर्थः । १२ तथापि त्रिलोक्याः पतिस्त्रैलोक्येश्वरो जिनः सकलार्थसिधै समस्तकार्यसिद्धयै किं न क्षमो न समर्थो भवेत्, अपि तु भवेदेवेत्यर्थः । एतेन भगवदतिशयादैवैकस्मिन् काले सर्वर्तुप्रादुर्भावो न त्वन्यस्य १५ कस्यापि प्रभावादित्यावेदितम् । व्यापिपरदिति । 'पृ पालनादौ' दीर्घान्तो जौहोत्यादिकश्च व्यापूर्वादस्मात्करि लङ् । ततो द्वित्वादौ कृते 'ऋपोर्दिस्योर्वा' इत्यडागमः, यद्यपि पाणिनीयादौ एतत्सूत्रा-१८ भावाद् व्यापिपरित्येवं रूपं दृश्यते तथापि सारखतादावेतत्सद्भावान्न दोषः। हिमाविति । हिमं प्रधानं यत्र स हिमप्रधानः, स चाऽसौ ऋतुश्च हिमर्तुस्तमिन् शाकपार्थिवादित्वान्मध्यपदलोपः । पुण्ड्रेति ।२१
१ वेंकटेश्वरमुद्रणालयप्रकाशिते माधवविवरणोपेते सारखतव्याकरणे ३४२ तमपृष्ठे नवमपौ वार्तिकरूपेण दृश्यते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org