________________
३०
श्रीगौतमीयकाव्यं नगानुषङ्गात्तु वितानिताङ्गा वल्लीः समुल्लासवतीः समीक्ष्य । संयोगमिष्टैः सकलार्थसारं विलासिलोकोऽत्र विदाश्चकार॥३२॥ ३ अत्रास्मिन् ऋतौ विलासिलोको भोगिजनो नगानां वृक्षाणां नगैः सह योऽनुषङ्गः सम्पर्कः सङ्गम इति यावत् , तस्मात् वितानं विस्तारो जातमस्येति वितानितं तथाविधमङ्गं शरीरं वाऽऽसां ता ६ वितानिताङ्गास्ता अत एव समुल्लासो विकाशोऽस्ति आसामिति समुल्लासवत्यस्ता एवंविधा वल्लीलताः समीक्ष्य दृष्ट्वा इष्टैर्वल्लभजनैः सह यः
संयोगः संसर्गस्तं सकलार्थेषु समस्तवस्तुषु सारं तत्त्वभूतं विदाञ्चकार ९ जानाति स्म । अयं भावः-तरुवल्लभसंसर्गात्प्राप्तसमुल्लासा लता निरीक्ष्य विलासिजन इत्थमतर्कयत्----'यदत्र संसारे इष्टसंयोगात्परं सारं किमपि
नास्तीति' । अनुषङ्गात्चिति । 'पञ्ज सङ्गे अनुपूर्वः अस्माद्भावे १२ घञ्, 'उपसर्गात् सुनोति०' (८।३।६५) इत्यादिना षत्वं, च 'चोः
कुः' ( ८।२।३०) इति कुत्वं, तुशब्दः पादपूरणे पुनरर्थे वा । वितानितेत्यादि । वितानं कदके यज्ञे विस्तारे क्रतुकर्मणि' इत्यने१५ कार्थः । तदस्य सञ्जातं' (५।२।३६) इति तारकादित्वात् इतन् ।
समीक्ष्यति । संपूर्वादीक्षतेः क्त्वा तस्य ल्यप् । इष्टैरिति ।
सहार्थस्य गम्यमानत्वात् 'सहयुक्तेऽप्रधाने' (२।३।१९) इति १८ तृतीया । 'वृद्धो यूना' (१।२।६५) इति निर्देशात् । विलासीति । विलसति तच्छीलः 'लस् संश्लेषणादौ' 'वौकषलस- (३।२।१४३)
इति घिनुण् । ततो लोकशब्देन कर्मधारयः । विदामिति । 'विद २१ ज्ञाने' 'उपविद-' (३।१।३८) इत्याम् , विदेत्यकारान्तनिपातनान्न
लघुपधगुणः (१) ॥ ३२॥ २३
इति शरद्वर्णनम् ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org