________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २९ ज्योत्स्ना' इति हैमः । मच्छितेत्यादि। 'मुछी मोहसमुच्छाययो' अस्माकर्तरि क्तः, “पाद-दीधिति-कर-द्युति-द्युत' इति हैमः ।। दीप्रेत्यादि । 'दीपी दीप्तौ' 'नमिकंपिस्मि-' (३।२।१६७) इति३ । रक्, उदकस्य बिन्दव उदबिन्दवः, अत्र 'मन्थौदनसक्तुबिन्दुवज्र-' (६।३।६०) इति उदकस्योदादेशः । जगलुरिति । 'गल अदने' अस्माल्लिट् , इता इति इणः कर्तरि क्तः ।। ३० ॥ परस्परालिङ्गितमातुलिङ्गा दुरादभेदं प्रतिदर्शयन्तः । परस्परप्रत्युपदावदातं साधर्मिकस्नेहमिव प्रपन्नाः ॥३१॥
परस्परालिङ्गितमातुलिगा अन्योऽन्यानालिङ्गय स्थिता बीजपूरकतरवो ९ जनान् दूरात् दूरदेशादभेदमभिन्नत्वं प्रतिदर्शयन्तः सन्तः। परस्परेभ्यो चतुर्थीबहुवचनम् , अन्योऽन्येभ्यः प्रति आभिमुख्येन या उपदा प्राभृतं सद्वस्तुढौकनमिति यावत् । तयाऽवदातं निर्मलं मनोज्ञ वा १२ साधर्मिकस्नेहं समानधर्मधारकजनप्रीतिं प्रपन्ना इव प्राप्नुवन्ति सेवेत्युत्प्रेक्षा । परस्परेत्यादि । परस्परैरन्योऽन्यैरालिङ्गिताः संश्लिष्टाः परस्परालिङ्गितास्ते च ते मातुलिङ्गाश्चेति विशेषणसमासः । 'मातुलिङ्गो १५ बीजपूर' इति हैमः । दर्शयन्त इति । हेतुमण्णिजन्ता दृशेलटः शत, अत्र जनानिति द्वितीयं कर्मपदमध्याहार्यम् । प्रत्युपदेत्यादि । प्रतिशब्दोऽत्राभिमुख्यवचनः, उक्तं च 'व्याध्याभिमुख्ययोाप्तौ १८ वारणे प्रतिरुच्यते' इति । उपदानमुपदा उपपूर्वाद्दाञ्, 'आतश्चोपसर्गे' (३।१।१३६) इति स्त्रियामङ्, 'उपदा प्राभृतं प्रोक्तमुपग्राह्य . मुपायनं' इति हलायुधः। 'अवदातं तु विमले मनोज्ञे सितपीतयोः' २१ इति हैमः । साधर्मिकेति । समानो धर्मः सधर्मस्तं चरन्तीति साधमिकास्तेषां स्नेहस्तं 'धर्म चरति' (१।४।४१) इत्यनेन ठक् । प्रपन्ना इति । ‘पद गतौ' दिवादिरात्वात् प्रपूर्वादस्मात्कर्तरि क्तः ॥ ३१ ॥ २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org