SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ २८ श्रीगौतमीयकाव्यं , द्भवचन्द्रज्योत्स्ना इव यथैवंविधा शारदकौमुदी विराजते तथा तदित्यर्थः । जालेत्यादि । 'जालं निवहसंचयौ' इति हैम: । 'गर्भः ३ कुक्षौ शिशौ सन्धौ भ्रूणे पनसकण्टके । मध्येऽनावपवरके' इत्यनेकार्थः । विरेजे इति । विपूर्वाद्राजतेः कर्त्तरि लिट् । वृतेति । वृत्रः कर्मणि क्तः, ‘श्र्युकः किति' ( ७ । २ । ११ ) इति नेट् । शारद कौमु६ दीति । शरदि घनात्यये भवा शारदी 'तत्र भवः' ( ४ | ३ |६३ ) इत्यणू, 'टिड्डा -' ( ४।१।१५ ) इति ङीप् सा चासौ कौमुदी चेति विग्रहः । ‘शरद्घनात्यये' इति हैमः । 'चन्द्रातपः कौमुदी च ज्योत्स्ना' ९ इति च हैमः । ' नन्वत्र भिन्नलिङ्गयोः कौमुदीसर सोरुपमानोपमेयत्वेनोपादानमयुक्तमिति चेत्', मैवं, उपमानोपमेययोर्भिन्नलिङ्गत्वं न दोषाय बहुभिर्महाकविभिरादृतत्वात् उक्तं च- 'लिङ्गसंख्याविभेदेऽपि १२ विशेषणविशेष्यताविभक्तिः पुनरेकैव विशेषणविशेष्ययोरिति' । यथा विशेषणविशेष्ययोस्तथोपमानोपमेययोरपि बोध्यम् ॥ २९ ॥ चन्द्रात मूच्छितचन्द्रपादैर्दीप्रोद बिन्दूनलिनीदलेषु । १५ इह प्रमत्ता जगलुः सलीलं मुक्ताफलभ्रान्तिमिता मरालाः ॥ ३० ॥ इहास्मिन् ऋतौ प्रमत्ताः प्रकृष्टमदोपेता अत एव मुक्ताफलानां आन्ति भ्रममिताः प्राप्ताः मराला हंसपक्षिणश्चन्द्रात पे चन्द्रज्योत्स्नायां १८ नलिनीनां कमलिनीनां यानि दलानि पत्राणि तेषु मूच्छिता वृद्धिं प्राप्ता ये चन्द्रपादाश्चन्द्रकिरणा स्तैदींप्रा दीप्तिमन्तो ये उदबिन्दवो जलकणास्तान् सलीलं लीलासहितं यथा स्यात्तथा जगलुर्गलन्ति स्म, २१ भक्षयामासुरिति यावत् । अयमर्थः - शरत्काले हि चन्द्रवत्यां रजन्यां चन्द्रकिरणैर्दीप्तिमन्तो नलिनीदलस्था जलकणा मत्तैर्मरालैर्मुक्ताफल२३ भ्रान्त्या भक्षिता इति । चन्द्रात इति । 'चन्द्रातपः कौमुदी च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy