________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २७ तेनैव प्रकारेण श्रीवीरनाथस्यागमेन आगमनेन जात उत्पन्नो हर्षों येषां तैस्तथाविधैः सद्भिः शिलीन्ध्रवृक्षैः पुष्पे पुष्पितम् । इदमत्र तात्पर्यम्यथा किल वर्षाकाले सान्द्रजीमूतच्छटासंस्पर्शादुत्पन्नप्रमोदाः शिलीन्ध्रा३ विकखरा बभूवुस्तथैवेदानीमपि श्रीवीरेश्वरागमनसमुद्भूतहर्षास्ते चारुतरपुष्पसम्भारभाजो जाता इति । घनेति । 'निबिडं तु निरन्तरं, निबिरीसं घनं सान्द्र' इति हैमः । घनोद्यदित्यादि । अयं धन-६ शब्दो मेघपर्यायः । 'इण् गतौ' अदादिरुत्पूर्वादस्माल्लटः 'उगितश्च' (४।१६) इति ङीप्, 'पुंवत्कर्मधारय-' (६।३।४२) इति पुंवद्भावाद् डीपो निवृत्तिः, 'वर्षास्तपात्ययः प्रावृट्' इति हैमः । ऋतु-९ विशेषवचनोऽयं वर्षाशब्दो नित्यं बहुवचनान्तः स्त्रीलिङ्गश्च बोध्यः । यस्तु वृष्टिवाचको वर्ष(र्षा)शब्दस्स त्वत्र न ग्राह्यः, तस्य पुंक्लीबलिङ्गत्वाद्बहुवचनान्तत्वानियमाच । जजृम्भे इति । जृम्भतेर्भावे लिट् । १२ पुपुष्पे इति । 'पुष्प विकासने' अस्माद्भावे लिट् ॥ २८ ॥
. इति वर्षाऋतुवर्णनम् ॥ ३॥ ___संप्रति चतुर्भिः शरतुं वर्णयतिकुत्रापि सान्द्रद्रुमजालगर्भे सरो विरेजे विमलाम्बुगर्भम् ।। वृतान्धकारेण सुखैकभूमिः समुचिता शारदकौमुदीव ॥ २९॥
कुत्रापि सान्द्रा घना ये द्रुमा वृक्षास्तेषां जालं समूहस्तस्य गर्भो १४ मध्यप्रदेशस्तस्मिन् निबिडतरुवृन्दमध्यदेशे इत्यर्थः, विमलं वर्षापगमेन कर्दमाभावान्निर्मलं यदम्बु पानीयं तद्गर्भे मध्ये यस्य तत्तथाविधं सरस्तडागो विरेजे शुशुभे सरः । केन ? अन्धकारेण पार्श्ववर्ति-२१ कुड्यादितमसावृता वेष्टिता तथा सुखस्यैकाऽद्वितीया भूमिः सुखैकभूमिस्तथा पुनः समुचिता एकीभूता ईदृशी शारदकौमुदी इव शर- २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org