________________
२६
श्रीगौतमीयकाव्यं
च । निलीयते इति 'लीङ् लेषणे' दिवादिरात्मनेपदी च । निपूर्वादस्मात्कर्त्तरि लट् ॥ २६ ॥
३ सदर्घ्यमर्हन्ति सदार्हणा इतीव बुद्धा कुटजैर्विदग्धैः । श्री तीर्थनाथार्चनचारुहेतुं वितत्य पुष्पश्रियमाशु तस्थे ॥ २७ ॥
अर्हणां पूजामर्हन्तीति अर्हणाहः पूजायोग्याः पुमांसः सदा ६ निरन्तरं सत्समीचीनमर्थ्यं पूजाविधियोग्यपुष्पादिद्रव्यमर्हन्ति । तदुपादानाय योग्या भवन्तीत्यर्थ इति एतत्प्रागुक्तं बुद्धा इव ज्ञात्वा इव विदग्धैः विचक्षणैः कुटजैस्तरुविशेषैः श्रिया लक्ष्म्या निरुपमोत्तम - ९ केवलज्ञानादिलक्षणया युक्तस्य तीर्थनाथस्य वीरप्रभोरर्चने पूजने चारुः शोभनो हेतुः कारणं तथाभूतं पुष्पश्रियं कुसुमलक्ष्मीमाशु शीघ्रं वितत्य विस्तार्य तस्थे स्थीयते स्म । अर्घ्यमिति । 'मूल्ये पूजाविधौ १२ चार्थे' इत्यमरः । अर्घाय पूजाविधये इदमर्घ्यं पादार्घाभ्यां च ' ( ५/४/२५ ) इति यत् । अर्हन्तीति । 'अर्ह पूजायां' कर्त्तरि लट् । अर्हति । 'पूजार्हणा सपर्याऽच' इति हैमः । कुटजैरिति । १५ 'कुटजो गिरिमल्लिका' इति च । श्रीतीर्थेत्यादि । उत्तरपदलोपी समासः । अत्र हेतुशब्दो नित्यपुंल्लिङ्गः । वितत्येति । विपूर्वाचनोतेः पूर्वकाले क्ता तस्य ल्यबादेशो वा स्यपि' ( ६ | ४ | ३८ ) इत्यनुना१८ सिकलोपः । तस्थे इति । स्थाधातोर्भावे लिट् ॥ २७ ॥ घनच्छटाच्छोटन तो घनोद्यद्वर्षासु हर्षेण यथोजजृम्भे । श्रीवीरनाथागमजातहर्षैस्तथा पुपुष्पे तरुभिः शिलीन्धैः ॥ २८ ॥ २१ घनेन घनवृष्ट्या उद्यत्य उद्गच्छन्त्यः प्रादुर्भवन्त्यो या वर्षास्तासु घना निबिडा या छटास्तासामाच्छोटनत आच्छोटनात् शिलीन्नैः २३ सिलन्धाभिधानैस्तरुभिर्वृक्षैर्हर्षेण प्रमोदेन यथा उज्जजृम्मे विकसितं तथा
1
Jain Education International For Private & Personal Use Only www.jainelibrary.org