________________
गौतमीयप्रकाशाख्य टीकया सहितम् ।
२५
'मितां ह्रखः' (६।४।९२ ) । कदम्बैरिति । 'अथ हलिप्रियः, नीपः कदम्ब' इति हैमः । लेभे इति । लभेः कर्मणि लिट् । सुमन इत्यादि । वनसम्बन्धिनी श्रीर्वनश्रीः, सुमनसः पुष्पाण्येव वनश्रीरिति विग्रहः, ३ सुमनस्शब्दो नित्यं बहुवचनान्तः स्त्रीलिङ्गश्च 'पुष्पं सूनं सुमनस' इति हेमचन्द्रोक्ते:, 'भूम्नि स्त्रियां सुमनसः' इति रत्नकोषकारोक्तेश्च । किञ्च 'पुष्पं सुमनाः कुसुमं ' इति नाममालादिदर्शनेनास्यैकवचनान्तत्वमपि ६ प्रतीयते । तथा च प्रयोग : - 'वेश्या श्मशानसुमना इव वर्जनीया' इत्यादि ॥ २५ ॥
आच्छादितो यद्यपि यत्नवृच्या यः केतकैः स्वप्रसवस्तथापि ।
स्वसौरभेणाथ स विश्रुतोऽभून्महानुभावः क्व निलीयते यत् ॥ २६ ॥
१२
केतकैर्वृक्षविशेषैर्यः खप्रसवो निजपुष्पं यद्यपि यत्नवृत्त्याऽऽच्छादितो यत्नपूर्वकमाच्छाद्य रक्षितोऽभूदित्यर्थः । तथापि अथ स प्रसवः स्वसौरभेण निजसौगन्ध्येन विश्रुतोऽभूत् प्रकटीबभूव । युक्तोऽय- १५ मर्थः-यत् यस्मात्कारणात् महान् अनुभावः प्रभावो यस्य स महानुभावः पदार्थः क्व निलीयते कुत्र प्रच्छन्नभावं भजते, अपि तु न कापीत्यर्थः । आच्छादित इति । आङ्पूर्वाच्छादयतेः कर्मणि क्तः । यत्तेत्यादि । १० यतनं यत्नस्तेन वृत्तिर्वर्त्तनं तया 'वृत्तिस्तु वर्त्तने, कैशिक्यादौ विवरणे' इत्यनेकार्थः । केतकैरिति । 'केतकः क्रकचच्छद' इति हैमः । प्रसव इति । 'पुष्पं सूनं सुमनसः प्रसवश्च मणीवकं' इति च हैमः । विश्रुत २१ इति । 'अथ विश्रुतं ज्ञाते हृष्टे प्रतीते च' इत्यनेकार्थः । अनुभाव इति । 'अनुभावो प्रभावे स्यान्निश्चये भावसूचने' इति अनेकार्थः २३
Jain Education International For Private & Personal Use Only www.jainelibrary.org