SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २४ श्रीगौतमीयकाव्यं छायेति । 'रम्भा मोचा कदल्यपि' इति हैमः । 'छाया बाहुल्ये' (२।४।२२) इति क्लीबत्वं । पुष्करिण्य इति । पुष्करं जलं पद्मं ३ वा अस्ति आखिति । 'पुष्करादिभ्यो देशे' (५।२।१३५) इतीन् , 'ऋन्नेभ्यः' (१।१५) इति ङीप् । 'पुष्करिण्यां तु खातकं' इति हैमः। 'समचतुरस्रा वापी पुष्करिणी' इति मिश्राः। श्रान्तीति । श्रमु ६ तपसि खेदे च' इत्यस्माद्भावे तिन् , 'तितुत्रतथ- (७२।९) इति नेट् । 'अनुनासिकस्य-' (६।४।१५) इति दीर्घः, सूर्यातपे नोत्पन्ना श्रान्तिः सूर्यातपश्रान्तिः शाकपार्थिवादित्वान्मध्यपदलोपः । ९ आसनिति । अस्तेः कर्तरि लङ्॥ २४ ॥ इति ग्रीष्मवर्णनम् ॥ २॥ अथ चतुर्भिर्वर्षा वर्णयति१२ दिव्युच्छलदुन्दुभिनादमेघध्वनिमयूरान् मदयाञ्चकार । तत्कूजनोत्कण्टकितैः कदम्बैरिहैव लेभे सुमनोवनश्रीः॥२५॥ दिवि आकाशे उच्छलन्नुत्पतन् योऽसौ दुन्दुभिनादो दिव्यपटह१५ निर्घोषः स एव मेघध्वनिर्धनगर्जारवः स कर्तृतामापन्नो मयूरान्बर्हिणो मदयाञ्चकार मदयति स्म, आनन्दितान्विदधे इत्यर्थः । अथ इहैव अस्मिन्नेवावसरे तेषां मयूराणां कूजनेन जल्पनेन उत्कण्टकिता उल्ल१० सितास्तत्कूजनोत्कण्टकितास्तैः कदम्बैनीपवृक्षैः सुमनोवनश्रीः पुष्परूपा वनलक्ष्मीलेंभे, प्राप्यते स्मेत्यर्थः । एतावता त्रैलोक्यनाथागमन समुद्भवं दुन्दुभिनादमेव मेघध्वनिमाशङ्कय प्रमुदितानां मयूराणां २१ कूजनेन समुल्लसिताः कदम्बाः प्रचुरतरपुष्पसम्पत्तिभाजो बभूवुरिति भावः । दुन्दुभीति । भेरी दुन्दुभिरानकः पटह' इति हैमः । मद२३ यामित्यादि । णिजन्तान्मदेराम् , 'मदी हर्षग्लपनयोः' इति मित्त्वान् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy