SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २३ नीलानि नीलवर्णानि यान्याम्राणि सहकारफलानि तेषां लुम्बिभिराचितानि पूरितानि यानि हारहूराणां द्राक्षालतानामुच्चैरुन्नतानि मण्डपानि तेषु आस्तृतानि चारूणि सुन्दराणि पत्राणि कदल्यादि- ३ दलानि यैस्ते तथा द्राक्षासवेन द्राक्षासुरापानेन आसमन्ताद् घूर्णितानि घूर्णनयुक्तानि अत एव ताम्राणि रक्तानि नेत्राणि येषां ते तथाविधा युवानस्तरुणपुरुषा वयस्तारुण्याभिधानं कृतार्थयन्ति स्म ६ कृतकृत्यं चक्रुः, सफलमकार्षुरित्यर्थः । आचितेति । आङ्पूर्वात् 'चिञ् चयने' अस्मात्कर्त्तरि क्तः, 'पूर्णे त्वाचितं छन्नपूरिते भरितं निचितं व्याप्तं' इति हैमः । हारहूरेति । 'द्राक्षा तु गोस्तनी । मृद्वी - ९ का हारहूरा चे 'ति च हैमः । मण्डपशब्दोऽर्द्धचदित्वात्युंक्कीबलिङ्गः । आस्तृतेति । आङ्पूर्वात् स्तृञः कर्मणि क्तः । आसवेति । 'मद्यसन्धानमास्रुतिः । आसवोऽभिषवः' इति हैमः । आघूर्णितेति । 'चूर्ण १२ भ्रमणे' अस्मात्कर्त्तरि क्तः, कृतार्थयन्तीति कृतार्थं कुर्वन्तीति विग्रहे कृतार्थशब्दात् ' तत्करोति' (ग० ) इत्यर्थे णिच्, 'लट्स्मे' ( ३।२।११८ ) इति स्मयोगे लिटोऽपवादो लट् ॥ २३ ॥ प्रलम्बजम्बूसहकाररम्भाछायातिशीतोदकपुष्करिण्यः । सूर्यातपश्रान्त्यपनोददक्षा वनेऽत्र नासन् किमु सेवनीयाः ॥२४॥ १५ अत्रास्मिन्वने कानने सूर्यस्य आतपेन प्रतापेन उत्पन्ना या ३० श्रान्तिः श्रमस्तस्या अपनोदे विनाशे दक्षाश्चतुरास्तथा प्रलम्बानां प्रचण्डानां जम्बूसहकाररम्भाणां जम्ब्वाम्रकदली वृक्षाणां छायं प्रलम्बजम्बूसहकाररम्भाछायं तेन अतिशीतमुदकं पानीयं यासु तास्तथा - २१ विधाः पुष्करिण्यो वाप्यः किमु सेवनीया आश्रयणीया नासन्न बभूवुः, अपि तु बभूवुरेवेत्यर्थः । जनानामिति शेषः । रम्भा- २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy