SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । ३३ हैमः । दधे इति । धृतः कर्मणि लिट् । पदमिति । 'पदं स्थाने विभक्त्यन्ते शब्दे वाक्येऽङ्कवस्तुनोः' इत्यनेकार्थः ॥ ३४ ॥ विनाऽपि कालं यदहो कुवल्यः पुष्पैर्दलैः सान्द्रतरा बभूवुः। ३ तदैवतैर्देवपतेः प्रभावो व्यक्तीकृतो भक्तिपरैः पुरैव ॥ ३५॥ ___ अहो इति आमन्त्रणे, भो लोकाः ! कुवल्यो बदर्यः कालं विनाऽपि पुष्पाद्युत्पत्तिसमयमन्तरेणापि यत्पुष्पैः कुसुमैर्दलैः पत्रैश्च सान्द्रतरा ६ अतिनिबिडा बभूवुस्तद्भक्तिपरैः सेवातत्परैर्दैवतैः सुरैः पुरैव प्रभोरागमनात् प्रागेव देवपतेर्वीरप्रभोः प्रभावो माहात्म्यं व्यक्तीकृतः प्रकटितोऽभूदित्यर्थः । कुवल्य इति । 'कर्कन्धुः कुवली कोलिबंदरी' ९ इति हैमः । सान्द्रेत्यादि । अतिशयेन सान्द्राः 'अतिशयेऽर्थे तरप्' । दैवतैरिति । देवता एव दैवतं, 'प्रज्ञादित्वात् खार्थेऽण्' पुंक्लीबलिङ्गोऽयम् । देवेत्यादि । देवानां चतुर्विधसुराणां ब्रह्मविष्णु-१२ महेशादीनां वा ज्ञानादिपरमातिशयसम्पन्नत्वात्पतिर्विभुर्देवपतिस्तस्य । व्यक्तीत्यादि । अव्यक्तो व्यक्तः सम्पद्यते तथाकृतो व्यक्तीकृतः 'कृभ्वस्ति-' (५।४।५०) इत्यादिना विप्रत्ययेऽस्य 'चौ' (६।३।१३८) १५ इतीकारः । भक्तीत्यादि । भक्तौ परा भक्तिपरास्तैः भक्तिरेव परा श्रेष्ठा येषां तैरिति वा । पुरेति । आदन्तमव्ययमिदं 'प्राक् पुरा प्रथमे' इति हैमः ॥ ३५॥ इति हेमन्तवर्णनम् ॥ ५॥ अथैकेन शिशिरं वर्णयतिसुखादुरूपैर्वदरै लन्त्यो यतो बदर्यो भुवमाससञ्जुः । तद्योगिनां चापि विलासिपुंसामासीद्रहोभूमिरिहाऽऽश्रितानाम् ॥२२ ३ गौ० का० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy