________________
श्री गौतमीयकाव्यं
पवनयुक्तत्वात्सुखदं, शेषं तु अतितापकारित्वान्न तादृशमिति, तथा तदैव शिरीषवृक्षोऽपि पुष्पितो भवतीति । रात्रीत्यादि । अर्द्धश्वासौ ३ भागश्चार्द्धभागः, रात्रेरर्द्धभागस्तस्मात् समांशवाच्यर्द्धशब्दविवक्षायां तु अर्द्धश्चासौ भागश्चेति विग्रहः, 'अर्द्ध: खण्डेऽर्द्ध समांशे' इति हैमः । एवमग्रेऽपि । उद्वमन्त्य इति । उत्पूर्वात् 'टुबम् उद्भिरणे' इत्यस्माल्लटः ६ शतृ, तत 'उगितश्च' (६।३।४५) इति ङीप्, 'शयनोः' ( ७|१| ८१ ) इति नुम् । वातीति । 'वा गतिगन्धनयो:' अस्माल्लटः शतृ, ततः सप्तम्येकवचनं ङिः । आह्लादयामासुरिति । 'ह्रादी सुखे' आङ्पूर्वः अस्माण्णिजन्तादाम् । अशेषेत्यादि । अशेषश्चासौ लोकश्चेति विग्रहः, 'विश्वाशेषाखण्डकृत्स्ने' ति हैमः ॥ १९ ॥
९
२०
भ्रमद्घटीयत्रजलप्रपातोच्छलत्किरच्छीकरशीतलासु । २ भूमिष्वधः पुष्पित पाटलानां सुखं निदद्रौ वनचारिलोकः ॥ २० ॥ वनचारिलोकः काननसञ्चारिजनः भ्रमतो भ्रमणं कुर्वतो घटी - यन्त्रस्य यत् जलं पानीयं तस्य प्रपातेन प्रपतनेन उच्छलन्त उत्प १५ ततोऽत एव किरन्तो निजावयवान् विक्षिपन्तो ये शीकरा जलक. णास्तैः शीतलाः शिशिरास्तासु एवंभूतासु पुष्पितपाटलानां कुसुमितपाटली वृक्षाणामधोभूमिषु अधोवर्त्तिपृथ्वी प्रदेशेषु सुखं यथा स्यात्तथा १८ निदद्रौ निद्रां चकार । भ्रमदित्यादि । 'भ्रमु चलने' अस्माल्लटः शतृ, 'उद्घाटकं घटीय' इति हैमः । किरदिति । 'कृ विक्षेपे' तुदादि • रस्माल्लटः शतृ, 'ऋत इत् - ' ( ७|१|१०० ) इतीत्त्वेरपरत्वम् । २१ शीकरेति । 'अथ शीकरः वातास्तजलेऽम्बुकणे' इत्यनेकार्थः । अध इति । पृथक्पदमेतत् अव्ययत्वाद्विभक्तेर्लुक् । पुष्पितेत्यादि । २३ पुष्पाणि जातान्यासामिति तारकादित्वादितच् । पुष्पिताश्च ता
"
Jain Education International For Private & Personal Use Only www.jainelibrary.org