________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २१ पाटलाश्च पुष्पितपाटलास्तासाम्, 'पाटलिः पाटले ति हैमः । निदद्राविति । 'द्रा कुत्सायां गतौ' अस्मान्निपूर्वाकर्तरि लिट् । वनेत्यादि । वने चरति तच्छीलो वनचारी, शीले णिनिः, स चासौ ३ लोकश्चेति विग्रहः, 'स्यात् षण्डं काननं वनं' इति हैमः ॥२०॥ रसं निपीयार्जुनमञ्जरीणां मत्तालिभिस्तत्र तथा जुगुञ्जे । यथा प्रमोदो रमानवानामुगायतां गानसहायताऽभूत् ॥२१॥६
अर्जुनः ककुभवृक्षस्तस्य या मञ्जयस्तासां रसं मकरन्दं निपीय पीत्वा मत्तालिभिर्मदयुक्तैर्धमरैस्तत्रार्जुनतरौ तथा जुगुले गुञ्जारवो विहितो यथा उद्गायतामुच्चैः खरेण गानं कुर्वतां प्रमोदोद्धरमान- ९ वानामानन्दमममनुष्याणां गानसहायता गीतेषु साहाय्यकारित्वमभूत् जाताः । एतावताऽर्जुनतरुतलस्थितानां खेच्छया गायतां नराणां गाने गुञ्जद्भिर्भमरैः साहाय्यं कृतमिति भावः । यद्वा सहायतेत्यत्र सामू-१२ हिकप्रत्ययं स्वीकृत्यायमर्थों विधेयः, भ्रमरैस्तथा जुगुले यथा उद्गायतां मानवानां गाने सहायता साहाय्यकर्तृणां समूहोऽभूदिति। निपीयेति । 'पीङ् पाने दिवादिः, निपूर्वादस्मात्पूर्वकाले क्त्वा तस्य ल्यबादेशः । १५ अर्जुनेति । 'ककुभोऽर्जुन' इति हैमः । मत्तेत्यादि । मत्ताश्च तेऽलयश्च तैः । जुगुञ्जे इति । 'गुजि अव्यक्ते शब्दे' अस्मात्कर्मणि लिट् । प्रमोदेत्यादि । प्रमोदेनोद्धरा उन्मदास्ते च ते मानवाश्च तेषां 'आह्लादः १८ प्रमोदः प्रमद' इति हैमः। 'मनुजो मानवः पुमान्' इति च । उद्गायतामिति । उत् ऊर्दू गायन्तीति उद्गायन्तस्तेषाम् । गानेत्यादि । सहायानां भावः सहायता, भावे तल्, यद्वा सहायानां २१ समूह इति विग्रहे सामूहिकस्तल, ततः सप्तमीतत्पुरुषः ॥ २१ ॥ समालिलिङ्गुर्गुरुभारनम्रा आम्रा भुवं लोललुलल्लताभिः । छायाप्रदानेन वनाभ्युपेतान्यमत्रयन्नृनिव सत्फलैश्च ॥ २२ ॥ २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org