________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १९ निर्गतमन्तरं व्यवधानं येभ्यस्तानि निरन्तराणि संमिलितानि श्वेतानि उज्ज्वलानि यानि सुमानि पुष्पाणि तेषामुच्चयः समूहस्तस्यान्तर्मध्ये वपुषः खशरीरस्य विकाशः प्रकाशो येषां ते तथाविधा ३ वरणास्तरुविशेषा विरेजुः शोभन्ते स्म । के इव, सुष्टु सम्यक् प्रकारेण क्लुप्तं रचितं यन्मुक्ताफलानां मौक्तिकानां जालं जालिका तेन गुप्ता आच्छादितास्तथा उच्चैरुन्नताः हरिन्मणीनां मरकतमणीनां निवहाः ६ समूहा इव यथाऽमी शोभा बिभ्रति तथा तेऽपीत्यर्थः । इह पुष्पाणां श्वेतत्वान्मौक्तिकैरौपम्यं वरणानां च हरिद्वर्णत्वात् हरिन्मणिभिरौपम्यमस्तीति । सुमेत्यादि । 'प्रसूनं कुसुमं सुम'मिति हैमः । 'वपुः ९ पुद्गलवर्मणी' इति च । वरणा इति । 'वरणो वरुणद्रुमे 'प्राकारे वरणं वृत्यां' इति हैमानेकार्थः । विरेजुरिति । विपूर्वाद्राजतेः लिट् । हरिदित्यादि । 'पीतनीलः पुनहरिदिति हैमः । हरितश्च ते मणयश्च १२ तेषाम् । 'मरकतं त्वरमगर्भ गारुत्मतं हरिन्मणि'रिनि हैमानिकहा इति । 'जालं निवहसंचयौ' इति च ॥ १८ ॥
__ इति वसन्तवर्णनम् ॥ १ सांप्रतं षड्भिः पद्यैीष्मं वर्णयितुमुपक्रमते-- राज्यर्द्धभागादिवसार्द्धभागं यावद्दिशः सौरभमुट्ठमन्त्यः । शिरीषपुष्पस्पृशि वाति वायावाह्लादयामासुरशेषलोकम् ॥१९॥१८
शिरीषस्य वृक्षविशेषस्य पुष्पाणि स्पृशतीति शिरीषपुष्पस्पृक् तस्मिन् , एवंविधे वायौ पवने वाति सति सौरभं सौगन्ध्यमुद्वमन्त्यः प्रादुःकुर्वाणाः दिशः पूर्वाद्याः ककुभो राज्यर्द्धभागात् अर्द्धरात्रादारभ्य २१ दिवसार्द्धभागं यावत्, अशेषलोकं समस्तजनमाह्लादयामासुरानन्दितं चक्रुः । अयमर्थः-ग्रीष्मत्तौ हि एतदेव प्रहरचतुष्टयं शीतादिगुणोपपन्न- २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org