________________
श्रीगौतमीयकाव्यं सुरूप इति सुष्टु रूपं यस्य सः । दुर्गत इति । 'दरिद्रो दुर्विधो दुःस्थो दुर्गत' इति हैमः ॥ १६॥ निमत्रिता यन्न समृद्धिकाले वयं तदेभिर्नहि सौहृदं नः। इतीव पुष्पैर्हृदये खकीये कृतो मधूकेषु नु पर्णपातः॥१७॥ ___मधूकवृक्षाणामपि किंशुकवत् पत्रसमये पुष्पाणि न, पुष्पसमये ६ च पत्रपातः स्यादिति खभावतस्तत्र कविरुत्प्रेक्षते--यत् यस्मात्कारणात् एभिः पत्रैः समृद्धिकाले निजसंपत्तिसमये वयं न निमन्त्रिता न
आहृताः, तत् तस्माद्धेतोनोंऽस्माकमेभिः सह सौहृदम् , मैव्यं नहि-न ९ विद्यते इत्यर्थः । इत्येवम्भूतविचारेणेव मधूकेषु वृक्षविशेषेषु पुष्पैः कुसुमैः खकीये उदये सति आत्मीयप्रादुर्भावे सति पर्णपातः पत्रविनाशः कृतो विहितः । इह नुशब्दो वितर्कद्योतकः । निमत्रिता १२ इति । निपूर्वाञ्चुरादिणिजन्तात् ‘मत्रि गुप्तभाषणे' इत्यस्मात्कर्मणि क्तः।
समृद्धीत्यादि।समृद्धेः कालः समृद्धिकालस्तस्मिन् , 'स्यात्कालः समयोदिष्टेति हैमः । सौहृदमिति । सुहृदो भाव इत्यर्थे युवादित्वादण् । १५ बाहुलकादुत्तरपदस्य न वृद्धिः, 'सख्यं तु सौहृदम्' इति हैमः । न
इति 'बहुवचनस्य वस्त्रसौ' (८।१।११) इति आमन्तस्यास्मदो न
सादेशः। खेत्यादि । खकस्यायं खकीयस्तस्मिन् खार्थिककन्नन्तात्व१८ शब्दात् , 'गहादिभ्यश्च' (४।२।१३८) इति छप्रत्ययस्तस्येयादेशः। कृत इति कृत्रः कर्मणि क्तः। मधूकेष्विति । 'मधूकस्तु मधुष्ठीलो
गुडपुष्पो मधुद्रुम' इति हैमः। पर्णपात इति । पातनं पातः, पर्णानां २१ पातः इति विग्रहः, पतेर्णिजन्ताद् घञ् ॥ १७ ॥
निरन्तरश्वेतसुमोच्चयान्तर्वपुर्विकाशा वरणा विरेजुः । २३ सुक्लप्तमुक्ताफलजालगुप्ता हरिन्मणीनां निवहा इवोचैः ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org