________________
गौतमीयप्रकाशाख्य टीकया सहितम्
अतिलुब्धत्वात् ते हि मद्यपानं सुखकारकं मन्वाना बहुलमपि भूमि - पातादिदुःखं न गणयन्तीत्यर्थः । मध्वित्यादि । मधुनः पानं मधुपानं तस्य लोभस्तस्मात् 'लोभः तृष्णा लिप्सा वशः स्पृहा' इति ३ हैमः । क्कुमेत्यादि । क्लमं करोतीति 'सुप्यजातौ ' ( ३।२।७८) इति णिनिः, 'क्लमः क्लेशः परिश्रमः' इति हैमः । जज्ञे इति । 'जनी प्रादुर्भावे' कर्त्तरि लिट् । मधुपा इति । मधु पिबन्तीति । ६ मधुपूर्वात्पाधातोः क्विप् ॥ भूपातेति । पतनं पातः, भुवि पातो भूपातस्तस्य दुःखं तस्मिन् ॥ १५ ॥
पुष्प श्रिया किंशुकपादपानामाच्छादिता पत्रदरिद्रताऽपि । नरः सुरूपः खलु दुर्गतोऽपि
स्यादेव लोकस्य विलोकनीयः ॥ १६ ॥
१२
किंशुकानां पलाशाख्यवृक्षविशेषाणां पुष्पश्रिया पुष्पलक्ष्म्या पत्रदरिद्रतादि आच्छादिता, पत्रैर्यद्धि दारिद्र्यं तदपि आच्छाद्यते स्मेत्यर्थः । एतावता अपत्रा अपि किंशुकाः केवलं पुष्पैरेव दर्शनीया बभूवुरिति १५ भावः । युक्तोऽयमर्थः — खलु निश्चयेन दुर्गतोऽपि दरिद्रोऽपि नरो मनुष्यः सुरूपः शोभनाकृतियुक्तः सन् लोकस्य विलोकनीयो दर्शनीयः स्यादेव भवत्येवेत्यर्थः । किंशुकानां किलाऽयं खभावो यतः पुष्प- १८ काले पत्राणि न भवन्ति पत्रसमये पुष्पाणि नेति । किंशुकेत्यादि । पादैः पिबन्तीति पादपाः किंशुकाश्च ते पादपाश्च तेषां । 'त्रिपत्रकः पलाशः स्यात्किशुको ब्रह्मपादपः' इति हैमः । आच्छादितेति । २१ आइपूर्वा चुरादिणिजन्तात् 'छद अपवारणे' इत्यस्मात्कर्मणि तः । पत्रेत्यादि । दरिद्राणां भावो दरिद्रता, पत्रैः दरिद्रतेति विग्रहः । २३ गौ०
० का ० Jain Education International
For Private & Personal Use Only
www.jainelibrary.org