________________
श्रीगौतमीयकाव्यं
विना कोऽपि जनः कस्य जनस्य न सुहृत् न मित्रम् ,अस्तीति शेषः। एतावंता प्राणिनां यावत् खार्थसिद्धिः सुखेनोपजायते तावदेव परस्परं प्रचुर३ तरा प्रीतिरीतिर्वरीवर्ति तदभाव (प्रीत्यभाव ?) एवेत्यन्वयव्यतिरेकाभ्यां खार्थ एव सौहार्दकारणमिति भावः । उज्झितेति । 'उज्झ त्यागे' कर्मणि
तः । नवेत्यादि । 'सप्तला नवमालिका' इति हैमः । नवमालिकानां ६ आलीति विग्रहः । सेव्येति । सेवितुं योग्याः 'वृ सेवायां' अस्मात् 'ऋहलोर्ण्यत्' (३।१।१२४) । अहो अहो इति । 'ओत्' (१।१।१५) इत्यनेन प्रगृह्यसंज्ञा, ततः 'प्लुतप्रगृह्या' (६।१।१२५) ९इति प्रकृतिभावः । स्वार्थेत्यादि । खस्यार्थः कृत्यं तत्र परः खार्थ एव परः प्रधानं यस्य स इति वा । 'अर्थः कृत्यं प्रयोजन'मिति हैमः ।
खार्थमिति । 'पृथग्विनानानाभिः' (२॥३॥३२) इति विनायोगे १२ द्वितीया । सुहृदिति । शोभनं हृदयं यस्य स 'सुहृदुहृदौ मित्रामित्रयोः' (५।४।१५०) इति हृदयस्य हृदादेशः ॥ १४ ॥
सेवन्तिकानां मधुपानलोभात्कण्टाटनं नक्तमकारि जज्ञे । १५मधुव्रतानां मधुपा जना यद्भूपातदुःखेऽपि सुखं लभन्ते ॥१५॥
मधुव्रतानां भ्रमराणां मधुपानलोभात् मकरन्दपानलिप्सया सेवन्तिकानां लताविशेषाणां यत् कण्टेषु कण्टकेषु अटनं भ्रमणं तत् १८क्लमकारि श्रमोत्पादकं न जज्ञे न जातं, लुब्धो जनो हि समविषम
प्रदेशसंचारसमुद्भवं किमपि श्रमादिकं नापेक्षते इति भावः । युक्तो
ऽयमर्थः। यत् यस्मात्कारणात् मधुपा मद्यपानकारो जना भूपात२१दुःखेऽपि भूमिपतनादिदुःखे सत्यपि सुखं लभन्ते सौख्यमनुभवन्ति,
१ तदभावे तदभावः' इति 'स्वार्थाभावे-स्नेहाभाव' इत्यर्थकः पाठोऽत्र सङ्गतिमाप्नुयादिति प्रतिभाति । २'कारणसत्त्वे कार्यसत्ता, कारणाभावे कार्याभावः' इति तयोर्लक्षणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org