________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १५ शेषः। तत्तस्मात्तार्किकास्तर्कशास्त्रवेत्तारो विद्वांसः श्रुतौ शास्त्रे किं संशयिताः कथं संशयमापन्नाः, प्रत्यक्षनिर्णीते वस्तुनि संशयविधानमयुक्तमित्यर्थः। एवं तर्हि 'गुणेषु गुणा न भवन्ति' इति तर्कवाक्यस्य का३ गतिरित्याशङ्कयाह-वाडित्यादि । गुणेषु रूपादिषु गुणा गन्धादयो न तिष्ठन्तीत्येतद्वाक्यं वाङ्मानं वचनमात्रमेवास्ति नतु तात्त्विकमित्यर्थः । इह 'सुरूपतायां च सुगन्धता यत्' इति पाठान्तरम् , तत्र ६ प्रयोगद्वयेऽपि भावे तल्प्रत्ययस्तु न संभवति । प्रस्तुतार्थाऽसङ्गतेः, ततः सुरूपमेव सुरूपतेत्यादि विगृह्य कथंचित्वार्थे तल्प्रत्ययं विधाय समाधेयम् । पुष्पोच्चयेष्विति । पुष्पाणामुच्चयाः पुष्पोच्चयास्तेषु ऐक्ष्यतेति ९ ईक्षुधातोः कर्मणि लङ् । चाम्पकेष्विति । चम्पकानामिमे चाम्पकास्तेषु 'तस्येदम्' (४।३।१२०) इत्यण् । तार्किका इति । तर्क विदन्त्यघीयतेति 'तदधीते तद्वेद' (४।२।५९) इति ठक् । संशयिता इति । १२ संशयो भ्रमात्मकं ज्ञानम् , स जात एषामिति, तारकादित्वादितम् । वामात्रमिति । वागेव वाङ्मानं 'मानं काल्येऽवधारणे' इत्यमरः॥१३॥
दूरोज्झिता या नवमालिकाली
सा चैव सेव्या भ्रमरैर्बभूव । अहो अहो स्वार्थपरो हि लोकः . स्वार्थ विना कोऽपि सुहन्न कस्य ॥ १४ ॥ १८ भ्रमरैर्या नवमालिकाली सप्तलाख्यलताश्रेणिर्दूरोज्झिता पूर्व दूरे मुक्ता आसीत् सैव वनमालिकाश्रेणी सांप्रतं भ्रमरैः सेव्या सेवनीया बभूव, यतः पूर्वनिःश्रीकत्वेन त्यक्ता सांप्रतं पुंसः श्रीकत्वेन पुनराहता २१ इत्यर्थः । एतदेव द्रढयति-अहो इत्यादि । हि यतः अहो अहो लोकः सर्वोऽर्थपरः स्वकीयकार्यसाधनतत्परो विद्यते इति शेषः। खार्थ २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org