________________
१४
श्रीगौतमीयकाव्यं
____ परिरम्भ आलिङ्गनं तस्य लाभः प्राप्तिर्यस्मिन् स तथाभूतो नितम्बिनीनां कामिनीनां पादस्य चरणस्य प्रहारस्ताडनं, लत्तापहार इति ३ यावत् । येषामशोकवृक्षाणां सुखाय सम्पद्यते सुखकारको भवतीत्यर्थः । ते मेरा विकसिता अत एव विलसन्तः शोभमानाः प्रवाला येषां ते तथाभूता अशोकसाला अशोकवृक्षाः स्मरस्य कामस्य कथं केन प्रकारेण न सखायो न सहायाः, अपि तु सखायस्ते इत्यर्थः । अशोकानां किलाऽयं स्वभावो यदा सकलालङ्कारशोभिता सुन्दरी प्रवरनपुररणत्कारकारिचरणेन मूले प्रहारं विधत्ते तदैव ते पुष्पादि९प्रसवन्तीति तेनैतेषां कामोद्दीपकत्वं युक्तमेवेति भावः । नितम्बिनीनामिति । स्त्रीकट्याः पश्चाद्भागो नितम्बः सोऽस्त्यासामिति मत्वर्थे इनिः,
ततो ङीप् । परिरम्भेति । परिरम्भणं परिरम्भः, 'रभ राभस्ये' भावे १२ घञ् 'रभेरशब्लिटोः' (७१।६३) इति नुम् । 'आलिङ्गनं परिष्वङ्गः
संश्लेष उपगृहनम् । अङ्कपाली परीरम्भ' इति हैमः । सुखायेति । क्लस्यर्थक्रियाया गम्यमानत्वात् 'क्लपि संपद्यमाने च' (५८० वा.) १५इति चतुर्थी, साला इति दन्त्यादिरयं, 'सालः मात्रप्राकारयोरपि' इति
हैमः । मेरा इति । 'मेरं विनिद्रमुन्निद्रे' इति हैमः । सरेति । 'मधुदीपमारौ मधुसारथिस्मरौ' इत्यभिधानचिन्तामणिः ॥ १२ ॥
शश्वत् सुरूपे किल यत्सुगन्धः
पुष्पोचयेष्वक्ष्यत चाम्पकेषु । तत्तार्किकाः संशयिताः श्रुतौ किं
वाङ्मात्रमेतन गुणा गुणेषु ॥ १३ ॥ . किलेत्युत्प्रेक्षायाम् , यत् यस्मात्कारणात् चाम्पकेषु चम्पकसम्ब__न्धिषु पुष्पोच्चयेषु पुष्पसमूहेषु सुष्टु शोभनं यद्रूपं तस्मिन् सुरूपे शश्व३४ निरन्तरं सुगन्धः शोभनगन्धः ऐक्ष्यत दृष्टः, सर्वैरपि लोकैरिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org