________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
१३
विक्षिपति तदैव ते पुष्पादिभाजो भवन्ति । तथा विकसिताः सन्तो मधुत्रतालीं भ्रमरश्रेणिं मधु मकरन्दं पाययन्तीति । तत्रेदं कविनोत्प्रेक्षितम् — पश्यन्त्विति । एतत्क्रियाभिसम्बन्धादिहानुक्तोऽपि भवन्त ३ इत्येव कर्त्ता अध्याहार्यो न तु यूयमिति तदध्याहारे तु पश्यतेति क्रियापदस्य प्रसक्तिः स्यात् । तथा च सति छन्दोभन इति । मधुव्रतेत्यादि । 'मधुत्रतो मधुकर' इत्यमरः । मधु व्रतं भक्ष्यं यस्येति ६ तद्वृत्तिः । एवं च मधु मद्यं व्रतं यस्येति योगमात्रेण मधुव्रताः मद्यपायिन उच्यन्ते, योगरूढ्यां तु मधुशब्दस्य मकरन्दार्थतामपेक्ष्य मधुत्रता भ्रमरा उच्यन्ते । मधुत्रतानां या आली श्रेणिस्तां 'माला - ५ ल्यावलिपङ्कय' इति हैमः । इह 'गतिबुद्धि - ' (१।४।५२ ) इत्यादिना कर्मत्वाद्वितीया । यद्यपि पा धातोः पानमर्थः नतु भक्षणम्, तथापि भक्षणमपि विशेषणीभूय भासते इत्येतावन्मात्रेण प्राप्तिर्बोध्या । १२ मध्विति । 'मधु क्षीरे जले मद्ये क्षौद्रे पुष्परसेऽपि च' इत्यनेकार्थः । पाययन्त्विति । हेतुमण्णिजन्तात्पिबतेर्लोट् । आगमेत्यादि । आगमस्य उक्तयः आगमोक्तयस्ताः । सौगतानामिति । सुगतस्येमे १५ सौगतास्तेषां ' तस्येदम् ' ( ४ | ३ | १२० ) इत्यण् । सत्येत्यादि । सत्यशब्दात्तत्करोतीत्यर्थे 'सत्यापपाश - ( ३।१।२५ ) इत्यादिना णिच् । सूत्रे सत्यापग्रहणादापुगागमः, ततो लटः शतृ । विरेजुरिति १८ विपूर्वात् 'राजृ दीप्तौ' इत्यस्मात्कर्त्तरि लिट् ॥ ११ ॥
नितम्बिनीनां परिरम्भलाभाः पादप्रहारोऽपि सुखाय येषाम् ।
तेऽशोकसाला विलसत्प्रवालाः
मेराः सखायो न कथं स्मरस्य ॥ १२ ॥
Jain Education International
For Private & Personal Use Only
२१
२३
www.jainelibrary.org