________________
१२
श्रीगौतमीयकाव्यं
हखः । ननु छान्दसोऽयं प्रयोगः कथमत्रोपात्त इति चेदुच्यते । लोकेऽपि कविभिराहतत्वान्न दोषः । यथा छान्दसमपि प्रभविष्णु३ शब्दं माघः प्रायुत 'जगत्प्रभोरप्रभविष्णुवैष्णवं' इति बृहत्सिद्धान्तकौमुद्यां बहुषु माघपुस्तकेषु तु असहिष्णु इति पाठो दृश्यते । किं नासन्निति काकूक्तिरियं अस्तेः कर्तरि लङ् । कारणेत्यादि । कारणं ६च कार्य च कारणकायें, समयोर्भावः साम्यं, कारणकार्ययोः साम्यमिति विग्रहः । 'अल्पान्तरं' (२।२।३४) इत्यनेन कार्यशब्दस्य प्राग्निपाते प्राप्तेऽपि कारणस्य प्राधान्यादभ्यर्हितं चेति तत्पूर्वनिपातः ॥ १० ॥ ९ पश्यन्तु भो भो प्रमदाकटाक्षान्मधुव्रताली मधु पाययन्तु । इत्यागमोक्तीरिव सौगतानां सत्यापयन्तस्तिलका विरेजुः॥११॥
तिलकास्तिलकनामानो वृक्षा विरेजुः शोभन्ते स्म । किं कुर्वन्त १२ इव इति । इत्थं सौगतानां बौद्धानां आगमोक्तीः शास्त्रवचनानि सुगतप्रणीततत्त्ववाक्यानीति यावत् , सत्यापयन्त इव सत्याः कुर्वन्त इव ।
इतीति किमित्याह-पश्यन्त्वित्यादि । भो भो लोकाः भवन्तः प्रम१५ दानां स्त्रीणां कटाक्षान् कटाक्षविक्षेपान् पश्यन्तु तथा मधुव्रतालीं
मद्यपजनश्रेणिं मधु मद्यं पाययन्तु पानं कारयन्तु इति ॥ अयमत्र
तात्पर्यार्थः-यत्सत्तत् क्षणिकमिति व्याप्तिवादिनः सौगता एव१४ मुपदिशन्ति, 'यदहो लोकाः परमरमणीयरमणीरूपनिरीक्षणमनोऽभिलषितभोज्यभक्षणमधुपानमृदुशयनीयशयनादिभिरेव मोक्षावाप्तिः, न
तु तपोनुष्ठानादिभिस्तेषां हि क्लेशरूपत्वेन लोके दुःखस्यैव साधनत्वात् । २३ तस्मान्मोक्षार्थिभिः सुखेन स्त्रीभोगादि भोक्तव्यम्', तथा ये सुरा
पानक रस्तेषां तत्पानं कारयितव्यमेतदेव तत्त्वमस्तीति तिलकानां २३ पुनरयं स्वभावः । यदा नवयौवना कामिनी अभ्युपेत्य कटाक्षान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org