________________
गौतमीयप्रकाशाख्यटीकया सहितम् । ११ ये बकुला वृक्षविशेषाः सुन्दरीणां स्त्रीणां मुखशीधुलाभात् । आमोदेन परिमलेन मत्ता मदयुक्ता बभूवुस्ते बकुलाः षट्पदान् अमरान उन्मदयिष्णवो मदोत्पादकाः किं न आसन् न बभूवुः, बभू-३ वुरेवेत्यर्थः । अत्र किं कारणमित्यत आह—यत इत्यादि । यतो यस्मात्कारणात् कारणकार्ययोहेतुहेतुमतोः साम्यं सादृश्यमस्तीति शेषः। अयमर्थः-कारणं हि प्रायः खानुरूपमेव कार्य जनयति, न तु ६ खतो विरुद्धखभावम् , प्रायेण पित्रा तुल्यः पुत्र इत्याद्यभिधानात् । ततश्चात्र बकुलानां स्त्रीमुखमद्यखीकारजनितमत्तत्वेन तन्मकरन्दपा. यिनां भ्रमराणां मत्तत्वं युक्तमेवेति । एतावता बकुलमत्तताकारणं ९ अमरमत्तता च कार्यमिति स्थितम् । निःशेषाभरणभूषिता भामिनी समीपमुपेत्य यदा बकुले स्वमुखान्मद्यचुलुकं निक्षिपति तदैव तस्य पुष्पादिसम्पत्तिरुपजायते इति तत्स्वभावः । मुखेत्यादि । मुखस्य यः १२ शीधुस्तस्य लाभस्तस्मात् 'मैरेये शीधुरासव' इति हैमः । लभेघनि वृद्धौ लाभेति । न च 'अलभेश्चे'त्यनेन नुमागमः कुतो न स्यादिति चेदुच्यते, 'उपसर्गात्खल्घजोः' (६।१।६७) इति नियमान्न नुम् । १५ खल्घञोः परयोरुपसर्गादेव लभेर्नुम् न तु केवलस्येति तदर्थः । आमोदेति । 'आमोदो गन्धहर्षयोः' इति हैमः । मत्ता इति । 'मदी हर्षे 'करि निष्ठानध्याख्यापृमूर्छिमदां' इति निषेधात् निष्ठा () तस्य १८ न नत्वं । बकुला इति । 'बकुलः केसर' इति हैमः । षडित्यादि। षट् पदा येषां ते तान् 'नलोकाव्यय-' (२।३।६९) इति षष्ठीनिषेधः । उन्मदयिष्णव इति । उत्पूर्वाण्णिजन्तात् 'मदी हर्षे इत्य-२३ स्मात् ‘णेश्छन्दसि' (३।२।१३७) इति सूत्रेण इष्णुच् । अयामन्तेति । रय 'मदी हर्षग्लेपनयो रिति मित्वात् 'मितां--(६।४।९२) इति २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org