________________
श्रीगौतमीयकाव्यं
इति सामान्यतः षड् ऋतवो वर्णिताः । अथ विशेषतस्तान्वर्ण यितुकामः कविस्तावदशभिः काव्यैर्वसन्तं वर्णयति३ सूनुप्रसूताविव मोदमाप्ताः सूनोद्गमे चूततरोविरेफाः । एषामतो मङ्गलगायनानामिव ध्वनिर्माङ्गलिको जम्भे ॥९॥
द्विरेफा भ्रमराः चूततरोः सहकारवृक्षस्य सूनोद्गमने पुष्पोद्गमने ६ जाते सति मोदं हर्ष आप्ताः प्राप्नुवन्ति स्म । कस्यामिव, सूनुप्रसूताविव पुत्रोत्पत्ताविव, यथा पुत्रोत्पत्तौ सत्यां जना मोदमाप्नुवन्ति तथेत्यर्थः ।
अतोऽस्मात्कारणादेव एषां भ्रमराणां माङ्गलिको मङ्गलसूचक इव ९ ध्वनिझङ्कारशब्दो जजृम्भे उल्ललास, विसृतवानित्यर्थः । केषामिव । मङ्गलगायनानामिव, यथा कापि हर्षकारणे मङ्गलगानकर्तृणां माङ्गलिको
ध्वनिर्गीतनादो जम्भते तथेत्यर्थः । सून्वित्यादि । सूनोः प्रसूतिः १२ सूनुप्रसूतिस्तस्यां, प्रपूर्वात् धूडो भावे क्तिच् । 'प्रसूतिः स्यादपत्ये
प्रसवेऽपि च' इति हैमः । सूनेत्यादि । सूनानामुद्गमः सूनोद्गमस्तस्मिन् 'पुष्पं सूनं सुमनस' इति हैमः। द्विरेफा इति । द्वौ रेफौ येषां १५भ्रमरखरूपे नाम्नि ते द्विरेफाः । मङ्गलेत्यादि । मङ्गलं गायन्तीति मङ्ग
लगायना गान्धर्वादयस्तेषां । माङ्गलिक इति । मङ्गलं प्रयोजनमस्येति 'प्रयोजनम्' (५।१।१०९) इति ठक् । यद्वा मङ्गलमहतीति तदर्हति' १८(५।११६३ ) इति ठक् । अथवा मङ्गले नियुक्त इति 'तत्र नियुक्त' (१।४।६९) इति ठक् । जजम्भे इति । 'जभी गात्रविनामे'
अस्मात्कर्तरि लिट् । धातूनामनेकार्थत्वादस्य विस्तारार्थता ॥ ९॥ २१ ये सुन्दरीणां मुखशीधुलाभा
दामोदमत्ता बकुला बभूवुः। ते षट्पदान् उन्मदयिष्णवः किं
नासन् यतः कारणकार्यसाम्यम् ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org