________________
गौतमीयप्रकाशाख्यटीकया सहितम् । वातोच्छलत्पल्लवहस्तताले रोलम्बझङ्कारसुगीतनादैः। कारस्करास्तीर्थकरागमोत्थं निदर्शयामासुरिव प्रमोदम् ॥ ८॥
कारस्करा वृक्षाः कर्तारः वातेन वायुना उच्छलन्त उत्पतन्तो ये ३ पल्लवाः प्रवालास्त एव हस्तताला प्रसारिताङ्गुलिपाणयस्तैस्तथा रोलम्बानां भ्रमराणां ये झङ्कारशब्दास्त एव सुष्ठु शोभना गीतनादा गानध्वनयस्तैः करणभूतैः तीर्थकरागमोत्थं वीरजिनागमनसमुद्भवं प्रमोदं ६ हर्ष निदर्शयामासुरिव ज्ञापयामासुरिवेत्युत्प्रेक्षा । उच्छलदिति । उत्पूर्वात् 'शल गतौ' इत्यस्माल्लटः शतृ । हस्ततालैरिति । यद्यपि 'प्रसारिताङ्गुलौ पाणौ चपेटः प्रतलस्तलः, प्रहस्तस्तालिकाताल' इत्युक्तत्वादत्र ९ तालपदेनैव प्रस्तुतार्थावगतौ हस्तपदं व्यर्थमिव प्रतिभाति । तथापि अस्य करिकलभादिवदुक्तपोषकत्वान्न दोषः। रोलम्बेत्यादि । “इन्दिन्दिरोऽली रोलम्बो द्विरेफ' इति हैमः । गीतेत्यत्र भावे क्तः । “गीतं १२ गानं गेयं गीतिः' इति हैमः । कारस्करा इति । पारस्करादित्वात्साधुः 'जर्णो दुर्विटपी कुठः, क्षितिरुहः कारस्करो विष्टर' इति हैमः । तीर्थकरेत्यादि । तीर्थ चतुर्विधः सङ्घः प्रथमगणभृद्वा तत्करोतीति १५ 'कृञो हेतुताच्छील्यानुलोम्येषु' (३।२।२०) इति टप्रत्ययः, तीर्थकरस्य आगमेन उत्तिष्ठतीति तीर्थकरागमोत्थस्तं उत्पूर्वात् स्थाधातोर्डप्रत्यये 'उदः स्थास्तम्भोः-' (८।४।६१) इति पूर्वसवर्णः । निदर्श-१८ यामासुरित्यादि । हेतुमण्णिजन्तादृशेर्लिट् कास् प्रत्ययादित्याम् । इह जनमिति शेषः । तस्य चाऽणिकर्तुः 'दृशेश्च' (५४० वा.) इत्यनेन णौ कर्मत्वात् द्वितीया ॥ ८॥
१ “विशिष्टवाचकानां पदानां सति पृथक् विशेषणवाचकपदसमवधाने विशेष्यमात्रपरत्वम्" इति न्यायोऽत्र सङ्गच्छते, 'करिकलभादिवत्' इति टीकाकृत्समाधानग्रन्थोऽप्येतन्न्यायगर्भितः इति प्रतिभाति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org