________________
श्रीगौतमीयकाव्यं
रागैरिति "रागः स्यालोहितादिषु । गन्धारादौ क्लेशादिकेऽनुरागे मत्सरे नृपे” इति हैमः । प्रचिता इति । प्रपूर्वाचिनोतेः कर्तरि क्तः। जह३रिति । हृझः कर्तरि लिट् । समृद्धमिति संपूर्वात् 'ऋधु वृद्धौ' इत्यस्माकर्तरि क्तः, “यस्य विभाषा" (७।२।१५) इति नेट् ॥ ६ ॥ सुस्निग्धसान्द्राणि हरिच्छदानि प्रपश्यतां भूमिरुहोऽनिमेषम् । ६ अत्यन्तभेदेऽपि तदा नराणामकारयन्देवगणैरभेदम् ॥ ७॥
तदा तस्मिन् काले भूमिरुहो वृक्षाः सुस्निग्धसान्द्राणि सुतरामतिशयेन स्निग्धानि चिकणानि सान्द्राणि निबिडानि हरिच्छदानि हरि९द्वर्णपत्राणि अनिमेषमक्षिस्पन्दरहितं यथा स्यात्तथा प्रपश्यतां प्रकर्षण विलोकयतां नराणां देवगणैः सुरसमूहैः सहात्यन्तभेदेऽत्यन्तभिन्नत्वे सत्यपि अभेदं तैः सहाऽभिन्नत्वमकारयन् कारयामासुः । १२ अयमर्थः-यद्यपि नराणां सुरैः सहैश्वर्यादिकृतो महान् विशेषोऽस्ति तथापि तदानीमनिमेषतयाऽवलोकनेन तैः सहाऽभिन्नत्वं जातमिति ।
एतेन वृक्षाणामतिरमणीयत्वमुक्तम् । ननु देवानामनिमेषत्वे किं प्रमा१५णम् ? । न तावत्प्रत्यक्षादित्रयं, प्रकृते तत्तल्लक्षणानामसंभवादिति चेत्,
आगमप्रमाणमत्राऽवेहि । तदुक्तं-"अणिमिसनयणा मणकजसाहणा पुप्फदाम अमलाणा । चउरंगुलेण भूमिं न छिवंति सुरा जिणा बिति१८त्ति" ॥१॥ हरिदित्यादि । हरिंति च तानि छदानि चेति विग्रहः । 'हरिदिशि तृणान्तरे, वर्णभेदेऽश्वभेदे च' इत्यनेकार्थः 'बह पर्ण छदं
दलम्' इति हैमः। प्रपश्यतामिति । प्रपूर्वादृशेलटः शतृधातोः पश्या२१ देशः । भूमीत्यादि । भूमौ रोहन्तीति रहेः किम् । अनिमेषमिति । - न विद्यते निमेषो यत्र कर्मणि तत् क्रियाविशेषणमिदम् । अत्यन्ते
त्यादि। अन्तं विराममतिक्रान्तोऽत्यन्तः, स चासौ भेदश्च तस्मिन् । २४ अकारयन्निति । हेतुमण्णिजन्तात् कृत्रो लङ् ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org