________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
सौख्यादिलाभो भवतीत्यर्थः।स्थिता इति । स्थाधातोरकर्मकत्वात्कर्तरि क्तः । श्रीत्यादि । श्रिया लक्ष्म्या वियुताः इति तृतीयातत्पुरुषः । तदानीमिति । अखण्डमव्ययमिदं सश्रीकतामिति सह श्रिया वर्तन्ते ३ इति सश्रीकास्तेषां भावस्तत्ता तां प्रापुरिति । प्रपूर्वादामोतेर्लिट् । अगा इति । न गच्छन्तीत्यगाः । 'नगोऽप्राणिषु' (६।३।७७ ) इति वैकल्पिकत्वात्पक्षे नञो न लोपः। त एवेति । अत्र एवकारोऽपि-६ शब्दार्थे । लभ्या इति । "पोरदुपधात्" (३।११९८) इति कर्मणि यत् । असुमद्भिरिति । असवः प्राणाः सन्त्येषामित्यसुमन्तस्तैः कर्तरि तृतीया, "पुंसि भूम्न्यसवः प्राणा" इत्यमरः ।९ दशेत्यादि । “अवस्था तु दशा स्थितिः" इति हैमः । “विवत्तों नने सङ्केऽपावृत्तौ" इत्यनेकार्थः ॥ ५॥ रागाक्तलोकेरितदृष्टिपातादिवाप्तरागैः प्रचिताः प्रवालैः। १२ द्रुमा न पुंसां न मनांसि जहुर्मनोहरं किं न भवेत्समृद्धम् ॥६॥
रागेण स्नेहेनाक्ता युक्ता ये लोकास्तरीरिताः प्रेरिता या दृष्टयो नेत्राणि तासां पातः पतनं तस्मादिव आप्तः प्राप्तो रागो रक्तिमा १५ यैस्तैः प्रवालैः किसलयैः प्रचिताः पुष्टाः द्रुमाश्चतादिवृक्षाः पुंसां मनुष्याणां मनांसि चेतांसि कर्मतामापन्नानि न न जहुः न न हरन्ति स, हरन्ति स्मैवेत्यर्थः। 'द्वौ नौ प्रकृतमर्थ सूचयत' इत्युक्तत्वादिह १८ नद्वयेन हरणरूपोऽर्थ एव द्योत्यते, नतु निषेधार्थः । उक्तमर्थमर्थान्तरन्यासेन द्रढयति । समृद्धं समृद्धियुक्तं सत् किं वस्तु मनोहरं मनोहारकं न भवेत् ? । सर्वमपि स्यादेवेति भावः । अक्तेति । 'अञ्च २१ गतौ' अस्मात्क-रिक्तः । 'यस्य विभाषा' (७२।१५) इति 'न'। . ईरितेति । ईर गतिकम्पनयोः अस्मात्कर्मणि क्तः। एवमाप्तेत्यत्रापि । २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org