________________
श्रीगौतमीयकाव्यं
"
कर्म राज्यं स्वस्य राज्यं खराज्यं तस्य देशास्तान् । 'देशो जनपदो नीवृत्' इति हैमः । राजेत्यादि । राजसु वर्याः । 'मुख्यं प्रकृष्टं प्रमुख ३ प्रबर्ह वर्यम्' इति हैमः । विभज्येति । विपूर्वाद्धजे: पूर्वकाले क्त्वा तस्य ल्यबादेशः । वृक्षानिति । " उपान्वध्याङ्गवस : " ( १|४|४८ ) इत्यधिकरणस्य कर्मत्वाद्वितीया । अध्यवात्सुरिति । अधिपूर्वाद्वसः ६ कर्त्तरि लुङ् । खसारेत्यादि । खखात्मनः सारं पुष्पादिद्रव्यं तस्य सम्भारस्तं यथासारं प्रधानीभूतं वस्त्वित्यर्थः । ' सारो मज्जस्थिरांशयोः, बले श्रेष्ठे च सारं तु द्रविणन्यायवारिषु' इत्यनेकार्थः ॥ विकास९ यामासुरिति । णिजन्तात् "कस गतौ” इत्यस्मात् 'कास्प्रत्ययात् ' ( ३ । १ । ३५ ) इत्याम् । ततोऽस्तेरनुप्रयोगः । “विकासः स्फुटने व्यक्तौ” इति दन्त्यान्तो धरणिः । इनार्चनायेति । इनस्यार्चनमि१२ नार्चनं तस्मै, चतुर्थी प्राग्वत्, 'ईशितेनो नायकश्च' इति हैमः ॥ ४ ॥ प्राग् ये स्थिताः श्रीवियुतास्तदानीं सश्रीकतां प्रापुरगास्त एव । श्रियस्तु लभ्याः समयेऽसुमद्भिः सर्वत्र सत्यो हि दशाविवर्त्तः ॥ ५ ॥
येsगा वृक्षाः प्राक् पूर्वं श्रीवियुताः शोभा रहिताः स्थिता अति१८ ष्ठन् ते एव तेऽपि वृक्षास्तदानीं तस्मिन्काले प्रभोरागमनसमये सश्रीकतां शोभायुक्तत्वं प्रापुः प्राप्नुवन्ति स्म । युक्तोऽयमर्थः - असुमद्भिः प्राणिभिः श्रियो लक्ष्म्यस्तु समयेऽवसरे लभ्याः काप्यवसरे एक ११ लभ्यन्ते, नतु यदा तदापीति भावः । कथमित्याह — सर्वत्रेत्यादि । हि यतो दशायाः अवस्थायाः विवर्तः परावर्तः सर्वत्रास्मिन् लोके ४३. सत्योऽवितथोऽस्तीति शेषः । प्राणिनां हि यदा सद्दशाऽभ्युदेति तदैव
gu
७.
Jain Education International For Private & Personal Use Only www.jainelibrary.org