________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
तदा तस्मिन् काले वैशाखमासे वर्त्तमानः साक्षाद्विद्यमानो वसन्तो वसन्ताख्य ऋतुः । जगत्पतिं विश्वनाथं वीरं दर्शयितुं दृग्विषयं कारयितुमन्यानपि खव्यतिरिक्तान् ग्रीष्मवर्षाशरद्धिमशिशिराख्यानपि ३ ऋतून् एकपदेऽकस्मात्समाजुहाव आहृतवान् । युक्तोऽयमर्थः - हि यतः कारणात् ईश्वरदर्शनाय त्रिभुवनेश्वरं द्रष्टुं को जनो लोको न उत्सहेत नोत्साहं कुर्यात् ? अपि तु सर्वोऽप्युत्सहेत एवेत्यर्थः । ६ वर्त्तमान इति । वर्त्तते इति विग्रहे 'वृतु वर्त्तने' इत्यस्मात् कर्त्तरि लटः शानच् । समाजुहावेति । सम् आङ्पूर्वात् हु दानादावित्यस्मात्कर्त्तरि लिट् । एकपदे इति । एतदव्ययम् अकस्मादित्यर्थे । 'सहसैकपदे ९ सद्योऽकस्मात् सपदि तत्क्षणे ' इति हेमचन्द्रोक्तेः । दर्शयितुमिति हेतुमण्णिजन्तात् दृशेस्तुमुन् । उत्सहेतेति । उत्पूर्वात् सहे: कर्त्तरि लिङ् । ईश्वरेत्यादि । ईष्टे इतीश्वरः । दृष्टिर्दर्शनं, ईश्वरस्य दर्शनमीश्वर - १२ दर्शनं तस्मै 'क्रियार्थोपपदस्य - ' (२|३|१४ ) इति चतुर्थी ॥ ३ ॥ स्वराज्यदेशानिव राजवर्या विभज्य वृक्षानृतवोऽध्यवात्सुः । स्वसारसम्भारमथाभिरामं विकासयामासुरिनार्चनाय ॥ ४ ॥ १५
ऋतवो वसन्ताद्या वृक्षान् सहकारादितरून् विभज्य यथाखं विभागं विधाय । अध्यवात्सुराश्रयामासुः, वृक्षेषु निवसन्ति स्मेत्यर्थः । के कानिव ? राजवर्या नृपमुख्याः स्वराज्यदेशान् निजराज्यजनपदा - १८ निव, यथा प्रधाना राजानः खराज्यदेशान् विभज्य तेषु निवसन्ति तथेत्यर्थः । अथाधिवासानन्तरे (रं) ऋतवः इनार्चनाय इनं परमेश्वरमर्चयितुं पूजयितुं अभिरामं मनोहरं खसारसम्भारं निजसारभूतपुष्पफल- २१ पत्रप्रकरं विकासयामासुर्विकखरं चक्रुः यद्वा प्रकटं चक्रुः, तदानीं सर्वेऽपि तरवः पुष्पादिमन्त आसन्नित्यर्थः । स्वराज्येत्यादि । राज्ञः २३
Jain Education International For Private & Personal Use Only www.jainelibrary.org