________________
४
श्रीगौतमीयकाव्यं
I
"
तावत् प्रथमं क्रियावान् खोचितकार्यकरणोद्यतो व्यन्तरदेवसङ्घो व्यन्तरजातीयसुरसमूहोऽस्य वीरप्रभोरागममागमनं विदित्वा ज्ञात्वाऽव३ घिज्ञानेनेति शेषः । महसेनषण्डं । अपापापुर्युपकण्ठवर्त्ति महसेनना - मकं वनं रम्यं रमणीयं ससर्ज रचयामास व्यन्तरदेवसङ्घः । क इव । वनपालवर्ग इव, वनपालकसमूह इव अस्य । कस्येव । धात्रीपतेरिव ६ भूपतेरिव यथा क्रियावान् वनपालवर्गों धात्रीपतेरागमनं विदित्वा काननं रम्यं सृजति तथेत्यर्थः । विदित्वेति । "विदक् ज्ञाने" इत्यस्मात्पूर्वकाले क्त्वाप्रत्ययः । " रुदविद - " ( १ | २|८ ) इति तस्य ९ कित्वान्न गुणः । आगममिति । आगमनमागमः, "ग्रहवृहनिश्चिगमश्च” ( ३।३।५८ ) इति गमेर्भावेऽप् । अस्येति । " कर्तृकर्मणोः कृति" ( २/३/६५ ) इति कर्त्तरि षष्ठी । धात्रीपतेरिति । दधाति १२ भूतानीति धात्री भूमिस्तस्याः पतिर्नाथस्तस्य । व्यन्तरेत्यादि । चक्रवर्त्यादि सेवाकारित्वाद्विगतमन्तरं विशेषो नरेभ्यो येषां ते व्यन्तरास्ते च ते देवाश्च व्यन्तरदेवास्तेषां सङ्घः । क्रियावानिति । करणं क्रिया, १५ सा विद्यतेऽस्येति अस्त्यर्थे मतुप् । 'क्रियावान् कर्मसूद्यतः' इत्यभिधानचिन्तामणिः । वनपालेत्यादि । वनं पालयन्तीति वनपालास्तेषां वर्गः । 'वर्गस्तु सदृशाम्' इति हैमः । सदृशानां वृन्दं वर्ग उच्यते इति १८ तदर्थः । ससर्जेति । 'सृज विसर्गे' इत्यस्मात्कर्त्तरि लिट् । रम्यमिति । रन्तुं योग्यमित्यर्थे रमेर्यत् । महसेनेति । महसेनयक्षाधिष्ठितत्वादेतद्वनं महसेनाख्ययैव प्रसिद्धिं गतम् । 'स्यात् षण्डं काननं २१ वनम्' इति हैमः ।
1
ऋतुस्तदान्यानपि वर्त्तमानः समाजुहावैकपदे वसन्तः | २३ जगत्पतिं दर्शयितुं जनः को न छुत्सहेतेश्वरदर्शनाय ॥ ३ ॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org