________________
गौतमीयप्रकाशाख्यटी कया सहितम् ।
३
कर्मधारयः । ' वीरो जिने भटे श्रेष्ठे' इति हैमः । प्रस्थातुमिति । प्रपूर्वात् 'ष्ठा गतिनिवृत्तौ' इत्यस्मात् “समानकर्तृकेषु" ( ३।३।१५८) इति तुमुन्प्रत्ययः, यतोऽत्र प्रस्थानविषयिणीच्छा प्रतीयते, न तु प्रस्थानार्थेच्छा इत्यतः “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्" ( ३ | ३|१० ) इति पूर्वसूत्रेणाप्राप्तिरिति भावः । ऐच्छदिति । 'इषु इच्छायाम्' इत्यस्मात्कर्त्तरि लङ । ननु भगवतो वीतरागस्य सर्वथा ६ निःस्पृहेन इच्छाया अभावात् कथमैच्छदित्युक्तम् ? उच्यते । उपचारात् । इत्थमेव च श्रीभगवतीसूत्रवृत्त्योः प्रारंभेऽप्युक्तमस्ति । तथाहि 'संपावितुकामिति,' प्राप्तुकाम इति च यदुच्यते तदुपचारात्, अन्यथा हि ९ निरभिलाषा एवं भगवन्तः केवलिनो भवन्ति । 'मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तम' इति वचनादिति । अपापामिति । प्रायः सकलसुकृतिजनाधिष्ठितत्वात् नास्ति पापं यस्यां सा, तामित्यन्वर्थसंज्ञेयम् । १२ स चेत्यत्र चकारस्तु पादपूरणे वाक्यालङ्कारे वा, अव्ययानामनेकार्थत्वादिति भावः । इह प्रबन्धे आदितः श्रीशब्दप्रयोगाद्वर्ण गणादिदोषोत्पत्तिर्नात्रातीवोपयोगभाग् भवति । तथोक्तम् — “देवतावाचकाः शब्दा १५७ ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि च' इति ॥ १ ॥ सर्गेऽस्मिन्निन्द्रवज्रोपेन्द्रवज्रोपजातयो वृत्तानि । तल्लक्षणानि यथा – “स्यादिन्द्रवज्रा यदि तौ जगौ गः १, उपेन्द्रवज्रा १९ जतजास्ततो गौ २, अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातमस्ताः ॥ ३ ॥" इत्यलं प्रसङ्गेन ॥ १ ॥
1
-
तदानीं किं संजातमित्याह -
तावद्विदित्वागममस्य धात्रीपतेरिव व्यन्तरदेवसङ्घः । इव क्रियावान्वनपालवर्गस्ससर्ज रम्यं महसेनषण्डम् ॥ २ ॥ २३
२१
Jain Education International For Private & Personal Use Only www.jainelibrary.org