________________
श्रीगौतमीयकाव्यं श्रीवीरप्रभोरपापापुरीं प्रति या प्रस्थानेच्छा तद्रूपं वस्तु निर्दिशन्तः प्रबन्धमुपनिबध्नन्ति ॥ ३ तत्रादिमं काव्यमाहश्रीराविरासीदिव दिव्यदीप्तिर्यस्यात्मनि ज्ञानमयी समग्रा । तीर्थप्रवृत्त्यै स च वीरनाथः प्रस्थातुमैच्छन्नगरीमपापाम् ॥१॥ ६ स वीरनाथो वीरप्रभुस्तीर्थस्य चतुर्विधसङ्घस्य प्रवृत्त्यै प्रवृत्तिं कर्तु, तीर्थ प्रवर्तयितुमिति यावत् । अपापाम् । अपापासंज्ञिका नगरी प्रस्थातुं गन्तुमैच्छत्-वाञ्छति स्म । यत्तदोर्नित्याभिसम्बन्धात् स क इत्यत ९ आह-यस्येत्यादि । यस्य वीरप्रभोरात्मनि चेतने समग्राऽखण्डिता ज्ञानमयी निखिलघनघातिकर्ममण्डलविपक्षपक्षक्षयसमुद्भूतकेवलज्ञान
खरूपा श्रीलक्ष्मीराविरासीत्-प्रादुरभूत् । श्रीः केव ? दिव्यदीप्तिरिव १२ अद्भुतं ज्योतिरिव, यथा भगवत एव अन्यस्य वा कस्यापि उत्तम
स्यात्मनि दिव्यदीप्तिः प्रादुर्भवति तथेयमपीति भावः। केवलश्रियो हि
लोकालोकप्रकाशकत्वादिव्यदीप्त्यौपम्यम् ॥ आविरासीदिति । १५ आविरिति निपातः प्राकट्यार्थस्तत्पूर्वात् 'अस् भुवि' इत्यस्माद्धातोः
कर्तरि लङ् । दिव्यदीप्तिरिति । दिव्या चासौ दीप्तिश्चेति कर्मधारयः, दिव्येत्यत्र 'धुप्रागपाक्' (४।२।१०१) इति यत् 'दिव्यं वल्गु-लवङ्गयोः, १८ धुभवेऽपीति हैमानेकार्थः । ज्ञानमयीति । ज्ञायते परिच्छिद्यते वस्त्व
नेनेति ज्ञानं तत्स्वरूपमस्या इति खरूपेऽर्थे मयद, ततः “टिड्डाणञ्" (४।१।१५)इति डीप् । तीर्थप्रवृत्त्यै इति । तीर्यते संसारवारिधिरने२. नेति तीर्थम् , 'तु प्लवनतरणयोः' इत्यस्मादौणादिकस्थक्प्रत्ययः,
प्रवर्तनं प्रवृत्तिस्ततः षष्ठीतत्पुरुषः "क्रियार्थोपपदस्य" (२।३।१४) इति २३ चतुर्थी, तादर्थे चतुर्थी वा । वीरनाथ इति । वीरश्वासौ नाथश्चेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org