________________
॥ विश्वहितबोधिदायकश्रीअमीविजयगुरुभ्यो नमः॥
श्रेष्ठि-देवचन्दलालभाई-जैनपुस्तकोद्धारेपाठकश्रीरूपचन्द्रगणिविरचितं
श्रीगौतमीयकाव्यम् ।
श्रीक्षमाकल्याणगणिकृतगौतमीयप्रकाशाख्यटीकया सहितम् ।
॥ ॐ हीं नमः॥ ॥ श्रीगवडीपार्श्वनाथाय नमः ॥
अनन्त विज्ञानमयं विशुद्धं निरुद्धरागादिपरप्रचारम् ॥ जिनोत्तमं वीरमचिन्त्यशक्तिं निधाय भक्त्या हृदयाब्जकोशे ॥१॥ निराश्रवोद्दामगुणैकधामसमुल्लसद्विघ्नविघातदक्षम् ॥ गणेश्वराणां गणमुक्तियुक्त्या विधाय सद्यःस्तुतिगोचरं च ॥२॥ प्रणम्य रम्यं गुरुपादप- सरस्वतीं चाभिनिवेश्य चित्ते ॥ श्रीगौतमीयोत्तमकाव्यबन्धे वितन्यतेऽसौ प्रवरः प्रकाशः॥३॥
त्रिभिः संटङ्कः । अथ तत्रभवन्तः श्रीमन्तः कवयः पाठकरूपचन्द्रगणयः सत्काव्यस्याऽनेकश्रेयःसाधनतां पश्यन्तो निर्दुष्टसकलजनमनश्चमत्कार-९ कारि चारु गौतमीयाख्यं महाकाव्यं चिकीर्षवश्चिकीर्षितस्यार्थस्याविनपरिसमाप्त्यर्थम्, 'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इत्युक्तत्वादन्थादावाशीराद्यन्यतमं मङ्गलमवश्यं कर्तव्यमिति मन्वानाः १२
१ अनेन ज्ञानातिशयः सूचितः। २ अनेनापायापगमातिशयः सूचितः । ३ अनेन पूजातिशयः। ४ अनेन वचनाविशयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org