________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २८१ प्रकाश उद्योतो अनन्तः प्रतिभाति भासते । मुक्तौ देहाद्भिन्नस्यैवाऽवस्थानादनन्तज्ञानसद्भावाचेति भावः ॥ ३० ॥ .: अन्यच्च,त्रिभागहीनखशरीरमाने क्षेत्रे स्थितिर्यस्य स विश्वमौलौ । विश्वेश्वरश्चिन्मयमूर्तिरेव स्पृष्टो निराबाधमनन्तमुक्तैः ॥३१॥
विश्वस्य सर्वलोकस्य मौलिमुकुटमिव विश्वमौलिस्तस्मिन् लोका-६ प्रवर्तिनीत्यर्थः । तथा तृतीयो भागस्त्रिभागस्तेन हीनं न्यूनं यत्खशरीरं तन्मानमुन्मानं यस्य तस्मिन् एवं विधे क्षेत्रे सिद्धक्षेत्रे इत्यर्थः, यस्य देहाद्भिन्नस्याऽऽत्मनः स्थितिरवस्थानं विद्यते इति शेषः । स९ आत्मा विश्वेश्वरस्त्रैलोक्यनाथः । कुतः ? चिद् ज्ञानमेव खरूपमस्या इति चिन्मयी सा मूर्तिर्यस्य स तथोक्त एव, यतश्चिन्मयमूर्तिस्तत एव विश्वेश्वर इति भावः । पुनः अनन्ता एव मुक्ताः सिद्धास्तैर्निराबाधं १२ परस्पराबाधारहितं यथा स्यात्तथा स्पृष्टः, 'यत्रैकः सिद्धः तत्रानन्ताः सिद्धा' इति वचनात् । निराबाधत्वं तु सिद्धानां सर्वपुद्गलसङ्गपरित्यागेन अरूपिणि खखरूपे एवाऽवस्थानादवसेयम् ॥ ३१॥ १५ ___ इह पुनर्भगवान् प्रभासस्य संशयं निराकर्तुं प्रादुष्कुर्वन्नाह
चेत्पुण्य-पापक्षयतस्तु मुक्तिस्तदा सुखं दुःखमुभे न तत्र । मुक्तस्ततो निस्सुख-दुःख एव व्योमेव सौम्येति मतिं विमुञ्च ३२१४
तुशब्द एवार्थे, 'चेद्यदि पुण्यपापक्षयतस्तु पुण्यपापयोः क्षयादेव मुक्तिर्भवति तदा तत्र मुक्तौ सुखं दुःखं उभे द्वे अपि न स्तः, ततो व्योम इव आकाशवत् मुक्तो मुक्तात्मा निष्क्रान्तः सुख-दुःखाभ्यामिति निस्सुखदुःखः, सुख-दुःखवर्जित एव प्रामोतीति शेषः । अयं२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org