________________
२८२
श्रीगौतमीयकाव्यं
भावः-पुण्यात्सुखमुपजायते, पापाच्च दुःखमिति भवतामपि सम्मतम् । ततश्च कारणभूतयोः पुण्य-पापयोः क्षये तत्कार्यरूपयोः सुख३ दुःखयोरपि क्षयान्निःसुखदुःख एव मुक्तात्मा प्राप्नोति, तत्कारणाभावात् आकाशवत्', इति हे सौम्य! हे प्रभास! त्वं इत्युक्तप्रकारां मति बुद्धिं विमुञ्च परित्यज एतद्बुद्धिं मा कृथा इत्यर्थः ॥ ३२ ॥ ६ अथात्रोत्तरमाह
यदस्ति देहेन्द्रियजं सुखं त
दुःखानुषङ्गाननु दुःखमेव । निरीहताख्यं च यदात्मसौख्यं
निरीहसाधोरिव तत्र तत्स्यात् ॥३३॥ ननु इत्यामन्त्रणे, हे प्रभास ! देहेन्द्रियजं औदारिकादिशरीर-स्पर्श१२ नादीन्द्रियजन्यं यत् सुखमस्ति तत् दुःखानुषङ्गात् दुःखस्यानुसम्बन्धात् दुःखमेव ज्ञेयमिति शेषः, यच्च निरीहता निःस्पृहता आख्या
नाम यस्य तन्निरीहताख्यं आत्मसौख्यं आत्मनः खाभाविकं सुखं तत् १५निरीहसाधोनिःस्पृहमुनेरिव तत्र मुक्तौ स्यात् । अयमर्थः--पुण्य
कर्मफलं देहेन्द्रियजं सुखमस्ति तच लोकव्यवहारात्सुखतया रूढमपि
वस्तुतो मरणादिदुःखानुषङ्गित्वात्सर्व दुःखमेव, दुःखं तु पापफलत्वा१८ निर्विवादं दुःखमेव । एवं च सति सर्व दुःखमेवास्ति संसारे न सुखं,
तच दुःखं सिद्धस्य सर्वथा क्षीणमतस्तद्विरहात्सिद्धस्य खाभाविक निरूपममनन्तं युक्तिसिद्धमन्यदेव सुखमस्तीति न कश्चिद्दोषः ॥३३॥ २१ अथ सिद्धसुखमेव वर्णयति
अनिष्टसंयोग-भयाभिलाष-रोगाद्यभावेन च यत्प्रसिद्धम् । २३ यत्सर्ववित्तेश्वरतोपलब्धं तदक्षयं सौख्यमनन्तमत्र ॥ ३४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org