________________
श्री गौतमीयकाव्यं
"
तद्वत् स मोक्षोऽसन् अविद्यमानः कदापि कस्मिन्नपि काले नैवास्ति । खपुष्पस्य शुद्धपदत्वाभावादसत्त्वं नैव मोक्षस्येति भावः । अथ कर्म३. क्षयानन्तरं मुक्तस्य मोक्षं प्राप्तस्याऽऽत्मनो भूयः पुनरपि कर्मबन्धो न भवति, तद्धेतो रागादेः समूलकाषंकषितत्वात् तेन कारणेन हीति निश्चितं मोक्षे मुक्तावस्थायां स्थितिरात्मनोऽवस्थानं साधनन्ता वर्तते, ६ यस्या आदिरस्ति अन्तश्च नास्तीत्यर्थः ॥ २८ ॥
"
२८०
ननु यदि मोक्षस्थितिः साद्यनन्ता तर्हि मोक्षस्यानादित्वं न भवि - ष्यतीत्याशङ्कायामाह - ९ उत्पद्यमानोऽपि यथेह काल: प्रवाहरूपेण भवेदनादिः । तथैव मोक्षः समकर्मघातादुत्पद्यमानोऽपि भवेदनादिः ॥ २९ ॥
इहाऽस्मिन् लोके कालः समयादिरहोरात्रादिलक्षणो वा उत्पद्यमा१२ नोऽपि यथा प्रवाहरूपेण अनादिः आदिरहितो भवेत्, तथैव मोक्षः समेषां सर्वेषां कर्मणां यो घातो विनाशस्तस्मात् उत्पद्यमानोऽपि अनादिर्भवेत् ॥ २९ ॥
१५ अथ मोक्षस्यैव वर्णनमाह -
P
तुच्छेन्द्रियज्ञानमपि स्वदेहाद्भिन्नस्य यस्यास्ति गुणप्रकाशः । समस्तबोधावरणक्षयेण स तत्र तस्य प्रतिभात्यनन्तः ॥ ३० ॥
કઢ
तुच्छं सम्पूर्णज्ञानापेक्षयाऽल्पं यदिन्द्रियज्ञानं चक्षुरादीन्द्रियजन्यज्ञानं तदपि, आस्ताम् सम्पूर्णज्ञानमित्यपेरर्थः, यस्यात्मनः खदेहाद्भिन्नस्य सतोऽस्ति विद्यते तस्याऽऽत्मनः समस्तबोधावरणक्षयेण २१ सकलज्ञानानां छादककर्मविनाशेन तत्र मुक्तौ स गुणानां ज्ञानादीनां
१. 'स्थिते:' इति बोध्यम् ।
Jain Education International For Private & Personal Use Only www.jainelibrary.org