________________
गौतमीयप्रकाशाख्यटीकया सहितम् । २७९ साभावादिति भावः । तदानीं कीदृशोऽसौ जीव इत्याह-चञ्चदित्यादि । चिच्च ज्ञानं आनन्दश्च निरुपाधिकप्रमोदश्चिदानन्दौ, चञ्चन्तौ स्फुरन्तौ यौ चिदानन्दौ तौ खरूपं यस्य स चञ्चच्चिदानन्दमयः३ "चञ्च गतौ" भौवादिकोऽस्मात् शतृ, अत एव परः प्रकृष्टश्चासौ आत्मा च परात्मा, तथा दृषदः पाषाणात् पृथग्भूतं यत्सुवर्ण काञ्चनं तत्तुल्यः कर्मोपाध्यपगमादिति भावः ॥ २६ ॥
ननु जीव-कर्मणोः योऽनादिः सम्बन्धस्तस्य कथं च्युतिरित्याशङ्कायामाह
अनादिसंयोगवतोर्यथेष्टः - पाषाणधात्वोरनलेन भेदः । तथाऽऽत्म-कर्मव्यतिभेदसिद्धि
ज्ञान-क्रियाभ्यामवगच्छ विद्वन् ! ॥ २७॥ १२ अनादिश्चासौ संयोगश्चाऽनादिसंयोगः तद्वतोः पाषाणधात्वोर्डषवर्णाद्यो दो भिन्नत्वं यथाऽनलेन वह्निना कारणभूतेन इष्टोऽभिमतस्तथा तेन प्रकारेण हे विद्वन् ! हे प्राज्ञ ! आत्म-कर्मणोय॑तिभेदस्य १५ परस्परभिन्नत्वस्य सिद्धिं निष्पत्तिं ज्ञान-क्रियाभ्यां करणभूताभ्यां अवगच्छ जानीहि ॥ २७ ॥ . मोक्षस्य सद्भावादिकं स्पष्टयतिमोक्षस्तु सञ्छुद्धपदत्वशक्त्या खपुष्पवनैव कदाऽप्यसन् सः। मुक्तस्य भूयोऽथ न कर्मबन्धो मोक्षस्थितिस्तेन हि साधनन्ता २८ - शुद्धं केवलं यत्पदं मोक्ष इत्यादिलक्षणं तस्य भावस्तत्त्वं तच्छत्तया मोक्षो मुक्तिस्तु सन् विद्यमान एवास्ति, परं खपुष्पं आकाशपुष्पं, २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org