________________
रुपपत्तिभिः प्रतिपादितं यथा साधारणव्युत्पत्तिशाल्यपि जनो गूढानपि विषयानिमानञ्जसाऽवबुध्येत ।
कविमुकुटमाणिक्यचन्द्रेण श्रीरूपचन्द्रेण इतिहासोऽयं तथा महत्त्वशालिन्या पद्धत्या प्रगुम्फितो यथा विरुद्धविचारशालिनोऽपि जनस्य जैनागमं प्रति महत्त्वबुद्धिरुदयेत् । यतो हि गौतमो महाविद्वान् वेद-वेदाङ्ग-द्वासप्ततिकलादिसमग्रज्ञातव्यानां पारंगम आसीत् , यश्च शिशुत्वे क्रीडाऽऽसक्तोऽपि शब्दशास्त्रवेदिनां मूर्द्धमणिरमन। उक्तं हि"पुरःसरोऽसौ पदवाक्यवेदिना
मभूच्छिशुत्वेऽपि ललन् खलीलया ॥ ततो द्वयोर्गीपतिसर्पराजयोरयं तृतीयो भुवि पूज्यतापदे ॥ १५"
(पृ० ८४) यो वेदोक्तकर्मकलापे जन्मतः शब्दशाली सुनिपुणश्वासीत् , यस्य वैतादृश्यलौकिकी शक्तिरासीत् सोऽपि महाप्रभावो गौतमो वीरजिनेश्वरस्य वचनामृतेन आजन्माऽभ्यस्तं मार्ग परित्यज्य जैनागमे दीक्षितो बभूव । ततः सांप्रतिकविद्वन्मानिनां तु जैनमतखण्डनाय को वा दम्भः स्यात् ? ___ एवं किल जैनागमविजयडिण्डिमं सर्वतः प्रचारयन् महाकाव्यमिदं यथा धर्मतत्त्वबोधनायाऽलम् , तथा श्रद्धानदृढीकरणायापि पर्याप्तम् । विचार्यतामिदानीमस्य काव्यस्य साफल्यं मार्मिकैः । काव्यं हि शिक्षणीयान् खाभिमुखीकृत्य खाभिप्रेतमुपदेशविषयं तेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org